SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) . 22 सहतिष्ठन्तीनां स्त्रीणां सम्भ्रमेण कामपीडाजन्यत्वरया आलिङ्गतानि . स्वयंग्रहाश्लेषान् रचय विधेहि / ननु लौकिकं सौख्यमल्पकालिकमिति चेदत्राह - नीत्वा नीत्या कतिपयदिनं यौवनं गेहवासे, भुक्त्वा भोगानवनिवलये नाथ ! तत्वा स्वकीर्तिम् / वार्द्धक्येऽथ प्रिय ! निजजनैः साश्रुदृग्भिव्रताय, . प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् / / 24 / / व्याख्या - ___ हे नाथ ! स्वामिन् ! नीत्या नयेन कतिपयदिनम् कतिपयानि परिगणितानि दिनानि दिवसाः यस्मिन् तादृशं यौवनं तारुण्यं गेहवासे गृहस्थितौ नीत्वा अतिवाह्य, भोगान् स्रक्चन्दनवनिताद्युपयोगान् भुक्त्वा अनुभूय, अवनिवलये भूमितले स्वकीर्तिम् स्वीयं यशः तत्वा विस्तार्य; अथ तदनन्तरम् हे प्रिय! वल्लभ ! वार्द्धक्ये वृद्धस्य भावः वार्द्धकम् चोरादित्वादकञ्, तदेव वार्द्धक्यम् तस्मिन् स्थाविरे भावे सम्पन्ने सति साश्रुदृग्भिः अश्रुभिर्नेत्रजलैः सहिता दृशो नेत्राणि येषां तादृशैः निजजनैः स्वीयबन्धुभिः प्रत्युद्यातः कृतानुगमनः भवान् त्वम् व्रताय संयमाय आशु शीघ्रं गन्तुम् व्रजितुम् कथमपि केनापि प्रकारेण (न तु सुखेन) व्यवस्येत् उद्युञ्जीत / पुनरपि बान्धवत्यागस्यानौचित्यप्रदर्शनद्वारा गृहत्यागानौचित्यं प्रकटयति - . ताते याते त्रिदशभवनं युष्मदाशानिबद्धा, ये जीवन्ति प्रिय ! परिहरंस्तान्न किं लज्जसे त्वम् ? / आयाभावात् त्वयि सति गते बान्धवास्तेऽस्तवित्ता:, . सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः / / 25 / / .
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy