SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 21 शीलदूतम् (स्थुलभद्र चरित्रम्) सहोपमा सादृश्यं यस्य तादृशम् संयमम् इन्द्रियनिग्रहं प्राप्य स्वीकृत्य नृपश्रीसम राजलक्ष्मीसदृशं तं पूर्वप्राप्तं व्यापार मन्त्रिनियोगं मा नैव परिहर त्यज, यस्मिन् व्यापारे स्वीकृते जललवमुचः तोयबिन्दुसेचकाः सारङ्गा सारं सलीलं गच्छन्तीति सारोपपदाद् गमे र्डः मागमश्च, सरन्ति इत्यर्थे वा 'सृवृन्दृभ्यो णित् [उणा० 99]' इति णिदङ्गः गजाः (सारङ्ग श्चातके भृने कुरङ्गे च मतङ्गजे इति विश्वः) ते तव मार्गं गतागतपथं सूचयिष्यन्ति आवेदयिष्यन्ति, हि यस्मात् इह संसारे काचम् सीसकम् आदाय स्वीकृत्य चिन्तामणिम् रत्नविशेषं चिन्तितवस्तुमात्र-सकलवस्तुप्रदायकम् कः जनः मुञ्चेत् त्यजेत् / स्वर्गार्थ तपस्यतस्ते ततोऽप्यधिकं सुखमिहैव सुलभमित्याह - तीव्र यत्त्वं तपसि सुतपो देवलोकाशयेह, स्त्रीसम्भोगादपरमरिरे ! नास्ति तत्रापि सौख्यम् / गेहस्थस्तद्रचय सुचिरं स्वर्गसौख्याधिकानि, सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि / / 23 / / व्याख्या - त्वं भवान् देवलोकाशया देवलोकस्य स्वर्गस्य आशा प्राप्तीच्छा तया इह संसारे यत् तीव्र कठिनं सुतपः उत्तमं तपः तपसि आचरसि, अरिरे ! आश्चर्यम् (आश्चर्यद्योतकस्य लौकिकस्यैवमाकारस्य शब्दस्यानुकरणमेतत्) तत्रापि देवलोकेऽपि स्त्रीसम्भोगाद् स्त्रिया स्त्रीभि ; सह विलासाद् अपरम् नास्ति परम् उत्कृष्टं यस्मात् तत् अतिशयितम् सौख्यम् सुखमेव सौख्यम् भेषजादित्वाद् घ्यण, नास्ति न विद्यते, तत् तस्मात् गेहस्थः गृह एव तिष्ठन् स्वर्गसौख्याधिकानि स्वर्गस्य देवलोकस्य सौख्येभ्यः सुखभोगेभ्योऽपि अधिकानि उत्कृष्टानि, सोत्कण्ठानि उत्कण्ठया औत्सुक्येन सहितानि प्रियसहचरीसम्भ्रमालिङ्गतानि प्रियाणां वल्लभानां सहचरीणां
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy