SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 44 शीलदूतम् (स्थुलभद्र चरित्रम्) * धौतैरासां मृगमदभरैः कज्जलैर्वा तदेषा, स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा / / 55 / / व्याख्या - हे शस्याशय ! शस्यः प्रशंसनीय आशयः हृदयाभिप्रायो यस्य तदामन्त्रणम् भवान् स्थूलभद्रः ताभिः पूर्वानुभूताभिः आभिः सम्प्रत्यपि तव समक्षं स्थिताभिः मद्वयस्याभिः मम सहचरीभिः सह मिलितय मया कोशया युक्तः मिलितः सन् यदि चेत् अस्यां गङ्गायाम् नीरकेलिं जलविहारं प्रकुर्यात् विदध्यात् तद् तर्हि एषा गङ्गा आसाम् मत्सहितानां मम सहचरीणाम् धौतैः क्षालितैः मृगमदभरैः स्तनादिस्थितैः कस्तूरिकासमूहैः कज्जलैः नेत्रस्थितैरञ्जनैः वा (युक्ता) अस्थानोपगतयमुनासङ्गमा इव अस्थाने प्रयागातिरिक्ते देशे उपगतः प्राप्तः यमुनया कालिन्दया सह सङ्गमः सन्निधानं यया सा इव अभिरामा मनोहरा स्यात् भवेत् / जलक्रीडाकालिकं विशेषमाह - क्रीडां तत्र त्वयि रचयति प्रीतचित्ते नितान्तं, स्वर्णोच्छृङ्गीनिहितसलिलक्षेपणाद्यैर्विनोदैः / रोधः क्षुण्णं तव हयखुरैर्लप्स्यते नाथ ! तस्याः, शोभा शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् / / 56 / / व्याख्या - तत्र गङ्गायाम् नितान्तम् अत्यन्तम् प्रीतचित्ते प्रसन्न मनसि त्वयि भवति स्वर्णोच्छृङ्गीनिहितसलिलक्षेपाणाद्यैः स्वर्णस्य कनकनिर्मिता या उच्छृङ्गी श्रृङ्गाकारातोयक्षेपणी तस्यां निहितस्य स्थापितस्य सलिलस्य जलस्य क्षेपणं स्त्रीणामुपरि प्रक्षेपणम् आद्यं प्रथमं यत्र तादृशैः विनोदैः मनोरज्जनैः क्रीडां जलकेलिं रचयति विदधति (सति) हे नाथ ! तव भवतः हयखुरैः अश्वपादाङ्गः क्षुण्णं मर्दितं तस्याः गङ्गायाः रोधः तटम्
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy