SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 57 . शीलदूतम् (स्थुलभद्र चरित्रम्) अपरं च विशेषमाह - पाटलिपुत्रस्य - यस्यां लोका विमलमनसः पूर्णकामाभिरामा, रामाः कामं ललितगमना: कामनारीसमानाः / वृक्षाः साक्षादतुलफलदाः कल्पवृक्षोपमेया, नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्या: प्रदोषाः / / 75 / / व्याख्या - यस्यां पाटलिपुत्रनगर्यां लोकाः पुरुषाः सर्वे विमलमनस निर्मलहृदयाः पूर्णकामाभिरामाः पूर्णकामाः प्राप्तसकलमनोरथाः अभिरामाः सुरूपाश्च (सन्ति) रामाः रमयन्तीति रामाः स्त्रियः कामम् अत्यन्तं ललितगमनाः सलीलगतिशालिन्यः कामनारीसमानाः कामस्य कन्दर्पस्य नार्याः स्त्रिया - रत्या समानाः सदृश्यः (सन्ति) वृक्षाः तरवः अतुलफलदाः अनुपमफलप्रदायिनः (अत एव) साक्षात् अव्यवहितरूपेण कल्पवृक्षोपमेया कल्पवृक्षैः मनः सङ्कल्पितफलदानसमर्थैः देवतरुभिः उपमेयाः उपमातुं योग्याः (सन्ति) प्रदोषाः रजनीमुखानि नित्यज्योत्स्ना प्रतिहततमोवृत्तिरम्याः नित्यज्योत्स्नाभिः सततप्रकाशैः मणिरत्नादिकृतैः प्रतिहतया निवारितया तमोवृत्त्या अन्धकारव्यापारेण हेतुना रम्याः मनोहराः भवन्ति / पुनः पुरीमेव विशेषयति - यस्यामन्तः सुकृतरसिकाः पात्रदानप्रवीणा, एनोहीना विततविलसत् कीर्तयः सन्ति सन्तः / वारस्त्रीभिः सह सुमुदिताः काममग्नाश्च कामं, ___ बद्ध्वा यानं वहिरुपवनं कामिनो निर्विशन्ति / / 76 / / व्याख्या - यस्यां पुरि अन्तःसुकृतरसिकाः अन्तःसुकृतस्य आध्यात्मिक पुण्यस्य
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy