SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - यत्र पाटलिपुत्रे कामिनीनां विलासिनीनाम् नैशः निशाया अयं नैशः रात्रि सम्बन्धी मार्गः अभिसारमार्ग इति यावत्, सवितुः सूर्यस्य उदये सति मालास्त्रस्तैः शिरः प्रदेशादिनिहित माल्यात् परिभ्रष्टैः विविधकुसुमैः बहुविधपुष्पैः, कुङ्कुमाक्तांह्निचिनैः कुकुमाक्तानाम् कुङ्कुमरजितानाम् अंह्रीणां चरणानां चिनैः लाञ्छनै: क्षितितलगतेन भूमि पृष्ठस्थितेन अर्धजग्धेन अर्धभुक्तावशिष्टेन ताम्बूलेन चूर्ण खदिरादिपूरितनागरवल्लीदलवीटिकया ('ताम्मूलं-पूगपर्णचूर्णसंयोगः' इत्यभिधा० चिन्ता० 4-221) श्रवणपतितैः कर्णाच्चुतैः हेमाम्भोजैः कनककमलैः, भूषितैः इत्यर्थं सज्जितैः भूरिवासैः बहुतरावास प्रदेशैश्च सूच्यते अनुमीयते / . पुरीबैभववर्णनाय कामिवृत्तान्तमाह - यत्र स्त्रीणां प्रणयिषु हठादाक्षिपत्सु क्षपायां, क्षौमं साक्षाद् मनसिजपराधीनतामागतेषु / नित्योद्योतानपि मणिमयान् प्राप्य दीप्रान् प्रदीपान्, हीमूढानां भवति विफलप्रेरितश्चूर्णमुष्टिः / / 74 / / व्याख्या - यत्र पाटलिपुत्रे क्षपायाम् रात्रौ मनसिजपराधीनताम् मनसिजस्य कामस्य पराधीनताम् आयत्तताम् आगतेषु प्राप्तेषु प्रणयिषु प्रियतमेषु साक्षात् शरीराव्यवहितं क्षौमं वस्त्रविशेषम् हठात् बलपूर्वकम् आक्षिपत्सु अपनयत्सु (सत्सु) ह्रीमूढानाम् लज्जया कर्तव्यविषये विमुग्धानाम् स्त्रीणां कामिनीनाम् नित्योद्योतान् सततप्रकाशान् मणिमयान् रत्नरचितान् दीप्रान् ज्वलतः प्रदीपान् प्रकृष्टदीपान् प्राप्य गत्वा अपि चूर्णमुष्टिः सुगन्धिद्रव्यपरागमुष्टिः विफलप्रेरितः विफलं निरर्थकमेव प्रेरितः क्षिप्तः यथास्यात् तथा भवति जायते /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy