SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 37 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे स्वामिन् ! एषा प्रत्यक्षदृश्यमाना सुरनदी गङ्गा बहुपरिचिता अतिशयानुभूता इयं मद्रूपा प्रेयसी प्रियतमा इव तव भवतः दीक्षाम् प्रव्रज्यां उच्चैः दीर्धेः ऊर्मिरावैः प्रवाहकोलाहलैः वारयति प्रतिषेधति (इति) पश्य अवलोकय / हे शस्याशय ! शस्यः प्रशस्यः आशयोऽभिप्रायो यस्य तथाभूत ! विद्वन् ! कर्तव्याकर्तव्यविवेकपटो ! त्वम् भवान् अस्याः गङ्गाया रयकृतानि वेगसमुद्भूतानि, चटुलशफरोद्वर्तनप्रेक्षितानि चटुलानां चञ्चलानां शफराणां मत्स्यविशेषाणाम् उद्वर्तनानि उल्लुण्ठनानि एव प्रेक्षितानि अवलोकनानि मोघीकर्तुं विफलीकर्तुं न अर्हसि न युज्यसे | पूर्वमपि दीक्षां विहाय भोगानुभवः कृतो दृश्यत इत्युदाहरति - कान्तावाचा चिरकृतमहो ! प्रोझ्य चारित्ररत्नं, . भेजे भोगान् सुभग ! वितताना पूर्वः कुमारः / / सोऽस्थाद् गेहे प्रिय ! जिनमितान् वत्सरान् स्नेहतो वा, . ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ? / / 45 / / व्याख्या - हे सुभग ! सुन्दर ! आर्द्रपूर्वः आर्द्रशब्दः पूर्वं यस्य सः कुमारः आर्द्रकुमार नामा प्रसिद्धो राजपुत्रः कान्तावाचा कान्तायाः प्रियाया वाचा कथनेन चिरकृतम् बहुकालानुष्ठितं चारित्ररत्नम् चारित्ररूप मणिं प्रोज्झ्य परित्यज्य विततान् बहुविस्तृतान् भोगान् स्रक्चन्दनवनितादिविषयान् भेजे उपयुयुजे इति अहो ! आश्चर्यम् / हे प्रिय ! सः आर्द्रकुमारः जिनमितान् जिनसङ्ख्यकान् चतुर्विंशतिं वत्सरान् वर्षाणि यावत् स्नेहतः कान्तादीनां प्रेमतः गेहे गृहस्थाश्रमे अस्थात् स्थितः, (अर्थान्तरालङ्कागेपन्यासेनैतत् समर्थयति) वा अथवा ज्ञातास्वादः अनुभूतरसः कः जनः विपुलजघनां विपुलं विस्तृतं जघनं कटिपश्चाद्भागो यस्याः तादृशीं (नारी) विहातुं
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy