________________ शीलदूतम् (स्थुलभद्र चरित्रम्) [तिर्यग्दन्तप्रहारी तु गजः परिणतो मतः इति विश्वः] गजः करी तद्वत् प्रेक्षणीयं दर्शनीयं, यथा तादृशो गजः स्वाभाविकक्रीडायां निरतः किमपि सांसारिकमन्यत् न चिन्तयति तथैव सात्त्विकध्यानमग्नोऽसाविति भावः | श्रीगुरुं श्रिया शोभया सहितः गुरुः श्रीगुरुः तं, गृणाति धर्मम् इत्यर्थे 'कृ गृ ऋत उर्च [उणा० 734]' इति उ प्रत्यये ऋकारस्य उरादेशे च गुरुशब्दनिष्पत्तिः धर्मोपदेशकं [गुरुर्धर्मोपदेशकः इति हैमः] भद्रबाहुं एतन्नामकं श्रुतकेवली स्थविरं आर्यपदोप लक्षितं विद्यागुरुवरं मुनिप्रवरं ददर्श दृष्टवान् इति / / गुरोराभिमुख्यमाह - .. . शिक्षाकामं कृतनतिममुं ध्वस्तकामं निरीक्ष्याचख्यावेवं गुरुरुरुगिरा वत्स ! मोहं जयैतम् / संयोगेऽपि प्रभवति यतः प्राणिनामत्र दुःखं, कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूर संस्थे ? / / 3 / / व्याख्या: - आयान्तमेव श्रीस्थूलभद्रमुनिं दृष्ट्वा विशिष्टज्ञानयोगेन गुरुः तदीयं सर्वं वृत्तं ज्ञात्वा तं शिक्षयन् कथयामासेति कवेराशयः | ___तमेवाह - शिक्षाकामं कथमयं सांसारिको मोहो मे यास्यतीति तदुपदेशं शिक्षितुमिच्छन्तं कृतनतिं कृता विहिता नतिः शिरोनमनं येन तादृशम् ध्वस्तकामं कामेन स्मरेण ध्वस्तस्ववशमानीय मार्गात् च्यावित इति ध्वस्तकामः पूर्वं सम्प्रति तु ध्वस्तः कामो येनेति ध्वस्तकामः तं कामवासना परिभाविनम्, पूर्वत्रार्थे तृतीयातत्पुरुषसमासः राजदन्तादिवत् पूर्वप्रयोगार्हस्य परप्रयोगः, परत्रार्थे बहुव्रीहिः समासः, अमुं स्थूलभद्रं निरीक्ष्य आलोक्य एवं वक्ष्यमाणप्रकारेण उरुगिरा श्रेष्ठवाचा आचख्यौ कथयामास / वत्स ! वात्सल्यपात्र ? एतं ते मनसि स्थितं मया प्रत्यक्षतया दृश्यमानं मोहं वैचित्यं जय अधः कुरु, यतः कारणात् अत्र संसारे प्राणिनां मनुष्याणां संयोगे परस्पर सम्पर्के