________________ शीलदूतम् (स्थुलभद्र चरित्रम्) (सति) अपि दुःखं परस्परप्रतिकूलवेदनीयं प्रभवति सम्पद्यते कण्ठाश्लेषप्रणयिनि कण्ठस्य प्रियजनशिरोधरस्य आश्लेषः आलिङ्गनं तस्य प्रणयः गाढं प्रेम अस्य अस्तीति कण्ठाश्लेषप्रणयी तस्मिन् (तादृशे) जने दूरसंस्थे प्रियजनाद् विप्रकृष्ट देशस्थिते सति किं पुनः किं वक्तव्यम्, तादृशावस्थायां तु दुःखमवश्यम्भावीति / अथ स गुरुसन्निकर्षादात्मनः कृतकृत्यतां दर्शयति -... धन्यं मन्ये मुनिपरिवृढात्मानमेनं किलाद्यानिन्द्यं सद्यः परमसुखदं यन्नतं वा पदाब्जम् / पीत्वा हृद्यां विशदहृदयो देशनां सोऽपि सूरेः, .. प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार / / 4 / / व्याख्याः - सूरेः-माढरगोत्रीयस्थविरं श्रीसम्भूतिविजयाभिधगुरोराचार्यस्य हृद्यां हृदयस्य प्रियां 'हृद्यपद्य० [7-1-11]' इति यः, 'हृदयस्य हृल्लास लेखाण्ये 3-2-94] इति हृदादेशः, देशनां देशयति प्रापयति निर्मलं ज्ञानमनया इत्यर्थे "णिवेत्त्यास श्रन्थघट्टवन्देरनः [5-3-111]' इति अन स्त्रियां देशना उपदेशवाक् तां पोत्वा सोत्कण्ठं श्रुत्वा हृदि संधार्य च, विशदहृदयः विशदं विमलं हृदयम् अन्तःकरणं यस्य सः, प्रीतः तृप्तः प्रींग्श तप्तिकान्त्योः इत्यकर्मकात प्रीणातेः कर्तरि क्तः, प्रीतिप्रमुखवचन प्रीतिः स्वतृप्तिरेव प्रमुखम् प्रधानं यत्र तादृश वचनं वाक्यं स्वागतम् सुष्ठु शोभनम् आगतम् आगमनं यथा स्यात् तथा, आङ् पूर्वकाद् गमे र्भावे क्लीबे क्तः क्रियाविशेषणमिदम् (एवं) व्याजहार उवाच / हे मुनिपरिवुढ! मन्यन्ते आत्मानं जानन्ति इति मुनयः ‘मनेरुदेतौचास्य वा [उणा० 612] इति मनेरिः, तेषां परिवृढः परिवृंहति परिवर्हति वा इत्यर्थे 'क्षुब्धविरिब्ध० [4-4-70]' इति निपातनात् साधुः, प्रभुः तत् सम्बोधनम् हे मुनिपरिवृढ ? अद्य अस्मिन् दिने एनं प्रत्यक्षस्थितम् आत्मानं माम् धन्यं धनलब्धारं