________________ शीलदूतम् (स्थुलभद्र चरित्रम्) सौभाग्य युक्तं मन्ये अवगच्छामि किल निश्चितम्, यत् यस्मात् अनिन्द्यं निन्दाऽनह प्रशस्यम् सद्यः परमसुखदं तत्कालमेव परमानन्दाधायकम् वः युष्माकं पदाब्जम् पदं चरण एव अब्जम् वारिसमुद्भूतं कमलम् नतम् वन्दितम् (अस्ति)। आत्मनो दैन्यं प्रकटयति - कामान्धोऽहं तदिह बहुधा कर्म मोहादकाएं, जानात्यन्यो न हि जिनपते र्यद् विपाकं मुनीश ! / यावज्जैनी वचनरचनां वा न विन्दन्ति तावत्, कामार्त्ता हि प्रकृतिकृपणाश्चेतनाऽचेतनेषु / / 5 / / व्याख्या: - हे मुनीश ! मुनीनां तत्त्वबोधशीलानां यतीनाम् ईशः प्रभुः तत्सम्बोधनम्, कामान्धः कामेन विषयाभिलाषेण अन्धः दृष्टिविकलः कर्तव्याकर्तव्यदर्शनहीनः अहं स्थूलभद्रः, यद्विपाकं यस्य कर्मणः विपाकं परिणामं जिनपतेः जिनानाम् इन्द्रियविजयशीलानां पतिः प्रधानं तस्मात् अन्यः भिन्नः जनः न जानाति वेत्ति, तत् कर्म तादृशं कृत्यं मोहात् मनसो वैकृतात् बहुधा बहुभिः प्रकारैः अकार्षम् कृतवान् अस्मि / विषयेऽत्र पक्षान्तरमुपन्यस्यन् समर्थयति वा अथवा कामार्ताः विषयाभिलाषेण अतिपीडिता जनाः यावत् यत् कालपर्यन्तं जैनीम् जिनस्य भगवतोऽर्हतः इयं जैनी तां वचनरचनां उपदेशवाक् प्रवृत्ति न विन्दन्ति गुरुमुखात् न लभन्ते तावत् चेतनाचेतनेषु चेतयन्ते स्वज्ञानानुरूपं चेष्टन्ते इति चेतनाः जङ्गमाः, अचेतनाश्च तद्भिन्ना जडाः तेषु मध्ये प्रकृतिकृपणाः प्रकृत्या स्वभावत एव कृपणाः दीनाः भवन्ति इति नायं मदीय एव दोषः जिनोपदेशश्रवण हीनाः सर्वं एव मादृशा एवं कर्तव्याकर्तव्यज्ञानशून्याः सन्तो बहुविधानि अज्ञात-विपाकानि कर्माण्याचरन्त्येव / तथा च गुरुणा तथा जिनोपदेशदानेन कृतार्थनीयोऽस्मि यथा पुनरेधं विकर्मासक्तो न भवेयमित्याकूतम् /