SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) गुरुं स्तुवन् प्रार्थयते - जाने युष्मान् जिनपतिसमान् ज्ञानदानप्रवीणान्, रीणोऽमुष्मादनणुभवतो भावविद्वेषिजेतृन् / याचे तस्माच्चरणशरणं वः शरण्या ! रणघ्नं, याञ्चा मोघा वरमधिगुणे नाऽऽधमे लब्धकामा / / 6 / / व्याख्या - अमुष्मात् विप्रकृष्टात् परस्मादिति यावत् भवतः संसारात् लोकाद् वा अनणु अत्यन्तं रीणः रीच् स्रवणे, इत्यस्मात् क्तः सूयत्यादित्वात् तस्य नः स्रुतः च्युत इत्यर्थः अहं युष्मान् भवतः जिनपतिसमान् जिनानां पतिः जिनपतिः तेन समान् सदृशान् ज्ञानदानप्रवीणान् ज्ञानस्य सम्यक्त्वस्य दाने वितरणे उपदेशे प्रवीणान् निपुणान्, भावविद्वेषिजेतॄन् भावः अर्हत्सु श्रद्धारूपेऽभिप्रायः तस्य विद्वेषिणः विरुद्धा रागादयः तेषां जेतृन् जयशीलान् जाने अवगच्छामि, तस्मात् पूर्वोक्तपरिचयात् कारणात् हे शरण्याः ? शरणे रक्षणे साधवः शरणाय हिताः इति वा शरण्या ! शरणं गृहरक्षित्रोः इति विश्वः, रणघ्नं संसारोरण इव तस्य नाशकम् वः युष्माकं चरणशरणम् चरणयोः पादयोः शरणम् आश्रयं याचे प्रार्थये; प्रार्थनाया औचित्यं समर्थयतिअधिगुणे स्वाधिकगुणवति पुंसि याच्या प्रार्थना मोघा निष्फला वरम् ईषत्प्रियम्, अधमे स्वतो हीने पुंसि या लब्धकामा प्राप्तसमीहितफलापि न (वरम्) ईषत्प्रियमपि न भवति / / अथास्य दीक्षालाभं गुर्वादेशाद् विहारं चाह - कृत्वा लोचं शिरसि सहसा पञ्चभिर्मुष्टिभिः स्वैर्लात्वा दीक्षां गुरुवचनतः सैष शिक्षामवेत्य / / गुर्वादेशादथ निजपुरीमागमत्तां यति र्या, बाह्योद्यानस्थितहरशिवश्चन्द्रिकाधौत हा / / 7 / /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy