________________ शीलदूतम् (स्थुलभद्र चरित्रम्) कविकालिदासस्य मेघदूते प्रथमपद्यस्य चतुर्थः चरण इहापि चतुर्थत्वेनोपात्तः केवलं रामगिर्याश्रमपदं तत्र चित्रकूटाभिधपर्वताऽर्थे प्रयुक्तम् इह च तदन्यथा (पूर्वोक्तरूपेण) व्याख्येयं भवतीति / अथ गुरुसमीपगमनमाह - चित्ते मत्वा विषयनिचयं सत्त्वरं गत्वरं वै, गच्छन्नेषोऽध्वनि घनजिनध्यानसंलीनचित्तः / शान्तं कान्तं रसमिव गिरौ श्रीगुरुं भद्रबाहुं, वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श / / 2 / / व्याख्या - पूर्वपद्ये जातसंवेगरङ्गः इति पदेन वैराग्योत्पत्तिरुक्ता / वैराग्योत्पत्त्या च तत्त्वविविदिषा जायते तत्त्वज्ञानार्थं च गुरुरेव शरणम् 'तद् विज्ञानार्थं स गुरुमेवाभिगच्छेत्' इति-चित्ते हृदये विषयनिचयं विसिन्वन्ति अवबध्नन्ति इति विषयाः स्रग्चन्दनवनितादयः सांसारिका भोगाः तेषां निचयं समूह, सत्त्वरं त्वरया सहितं यथा स्यात् तथा गत्वरं गमनशीलं 'गत्वः [5-2-78] इवि निपातनम् / मत्वा विज्ञाय, घनजिन ध्यानसंलीनचित्तः घनं निबिडं यत् जिनस्य जयति रागद्वेषमोहादीन् शत्रून् इति जिनः 'जीण्शीदीबुध्यविभीभ्यः कित् [उणा० 261' इति किति न प्रत्यये जिन इति तस्य अर्हतः ध्यानं स्मरणं तत्र संलीनं सम्यग् एकतान तया लीनं मग्नं चित्तम् अन्तःकरणं यस्य तादृशः एषः स्थूलभद्रः मुनिराजः, अध्वनि मार्गे गच्छन् व्रजन् गिरी पर्वतप्रदेशे कान्तं मनोहरं शान्तं तन्नाम्ना प्रसिद्धं रसम् रस्यते आस्वाद्यते इति रसः शम स्थायिभावकः संसारदोषदर्शनादिना विभावेनाभिव्यक्तः आत्मानन्दरूपः तं इव वप्रक्रीडापरिणतगजप्रेक्षणोयं वप्रक्रीडा उत्खातकेलिः [गजादिभिः तटार्श्वभूमिप्रदेशानां दन्तादिभिरुत्पाटनाय तदुत्थितधूलेरुपरि क्षेपाय च या क्रीडा क्रियते सा वप्रक्रीडेत्युच्यतेट तस्यां परिणतः तिर्यग्दन्तप्रहारी