________________ शीलदूतम् (स्थुलभद्र चरित्रम्) - 14 / त्वं स्थूलभद्रः संयमं विषयाभिलाषनिग्रहं मुञ्चतः परित्यजतः मे मम अवनिविदिता भृतलप्रसिद्धा एषा सर्वतः श्रूयमाणा कीर्तिविस्फूर्तिः कीर्त्यते जनैः पुनः पुनराख्यायते इति कीर्तिः शुभकर्मानुष्ठानजं यशः, तस्या विस्फुरणं विस्फूर्तिः सर्वतो व्याप्तिः नाशम् भ्रंशं यास्यति गमिष्यति इति मा न जानीष्व अवेहि, (यतः) प्रदानैः प्रकृष्टैर्बहुवित्तवितरणैः (सा कीर्तिविस्फूर्ति) पुनरपि भूयोऽपि सिद्धिं सम्पत्तिं याता प्राप्स्यति, यथा येन प्रकारेण सिन्धुपूरः समुद्रप्रवाहः (प्रदानैः मेघादिभ्यो जलदानैः) क्षीणः क्षीणः वारंवारं हानि गतोऽपि स्रोतसां नदीप्रवाहाणं परिलघु अतितमां गौरव (भार) हीनं पयः पानीयम् उपयुज्यं स्वपूरणाय विनियुज्य (पुनरपि सिद्धिं पूर्वावस्थासम्पत्तिं याति) यति भावकीर्तिनाशेऽपि दातृभावकी वर्धिष्यसे इति भावः / उक्तमेवार्थं पुनरपि द्रढयति, दानस्यापि मोक्षसाधनत्वकथनेन जग्मुर्मुक्तिं कति न भरताद्याः सनाऽऽराध्य दानं ? भुञ्जन भोगान् सुभग ? भव तद् दानधर्मोद्यतस्त्वम् / कीर्त्या मूर्तीस्त्वमपि सितयन स्वः श्रियां सिद्धिमता, दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् / / 14 / / व्याख्या - ___ दानं वित्तवितरणं सना सर्वदा आराध्य अनुष्ठाय भरताद्याः भरतः आदितीर्थङ्कर श्रीऋषभदेवभगवतः सांसारिक सुतः (आर्षभि भरतः इति हैमः) राजविशेषः आद्यः प्रथमो येषां ते, कति असङ्ख्याताः मुक्तिं मोक्षं न जग्मुः, काक्वा बहवो दानधर्मेणापि मुक्तिं गता एवेति भावः / तत् तस्मात् हे सुभग ! चक्षुष्य-सुन्दरमूर्ते ! (चक्षुष्यः सुभगः' इति हैमः) भोगान् भुज्यन्ते इति भोगाः कर्मणि भुजे घन्, स्रक्चन्दनवनितादयः, तान् भुञ्जन् उपयुञ्जानः त्वम् स्थूलभद्रः, दानधर्मोद्यतः दानं वित्तादिवितरणमेव धर्मः सुकृतम् तस्मिन् उद्यतः तत्परः भव एधि, (तेन) त्वमपि भवानपि (भरतादिवत्)