SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) पथि मोक्षमार्गे (गच्छन्) दिङ्नागानां दिक्षु स्थिताः नागाः हस्तिनः दिङ्नागाः दिग्गजाः ते च / "ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः | पुष्पदन्तः सार्वभौम:, सुप्रतीकश्च दिग्गजाः / / ' इत्यभिधानचिन्तामणावुक्तम् / तेषां मूर्तीः शरीराणि कीर्त्या दानधर्मप्रभवयशसा सितयन् उज्ज्वलयन्, स्वश्रियां स्वर्गशोभाभूतानां कामिनीनाम् स्थूलहस्तावलेपान् स्थूलान् स्थूलबुद्धिभि रप्युपलक्ष्यान् हस्तयोः अपलेपान् क्षेपणादिप्रयोगनैपुण्य जनितगर्वान् परिहरन् विफलयन् सिद्धिं मुक्तिप्राप्तिम् एता गन्ता / स्वर्गसुखमपि अविगणय्य निर्वाणपदं यास्यसीति भावः | सम्प्रति कर्तव्यं दर्शयति - स्वामिन् ! सिंहासनमनुपमं त्वं प्रसद्याश्रयेदं, नानारत्नधुतिततिकृतस्फारचित्रं पवित्रम् / येन स्निग्धं वपुरुपचितां कान्तिमापत्स्यते ते, बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः / / 15 / / व्याख्या - * 'हे स्वामिन् ! मम सर्वस्वाधिपते ? त्वम् प्रसद्य प्रसादमूरीकृत्य, नानारत्नद्युतिततिकृतस्फारचित्रम् नानारत्नानां बहुविधमणीनां द्युतिततिभिः कान्तिसमूहैः कृतं विहितं स्फारम् अत्यन्तं चित्रम् कल्माषं, पवित्रं शुद्धम् अनुपमम् नास्ति उपभा सादृश्यं यस्य तादृशम्, इदं प्रत्यक्ष निर्दिश्यमानम् सिंहासनम् सिंहोपलक्षितमासनम् स्वर्णनिर्मितं नृपयोग्यमासनम् आश्रय जुषस्व येन आसनेन स्निग्धम् स्निह्यते स्म इति सकलजनप्रेमास्पदीभूतम्, ते तव वपुः शरीरम् गोपवेषस्य गोपालशरीरधारिणः विष्णोः श्रीकृष्णस्य (वपुः)
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy