________________ शीलदूतम् (स्थुलभद्र चरित्रम) स्फुरितरुचिना विकासिकान्तिना बर्हेण मयूरपिच्छेन इव यथा उपचितां समृद्धाम् कान्तिम् कमनीयताम् आपत्स्यते प्राप्स्यति / यथा बर्हनिमित्तेन चित्रेणापीडेन श्रीकृष्णस्य शोभासीत् तथैव बहुरत्नचित्रितेऽस्मिन् सिंहासने समासीनस्य तवापि स्यादिति भावः / एतावताऽप्यस्निह्यन्तं भूयोऽपि अभिमुखी करोति - . मन्ये जज्ञे कुलिशकठिनं तावकीनं हृदेत - द्यस्मादस्मानपि नहि दृशा स्निग्धया पश्यसि त्वम् / .. पश्येयं त्वां वदति सरसं सारिका देव ! मा मा, किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण / / 16 / / व्याख्या - - तावकीनम् तव इदम् युष्मद् शब्दादिदमर्थे शेषे वायुष्मदस्मदो० [63-67] इतीनञि तवकादेशे आदि स्वरवृद्धौ च तावकीनमिति, एतत् अनुभूयमानं हृत् अन्तः करणम् कुलिशकठिनम् कुलिशवत् वज्रवत् कठिनं कठोरं जज्ञे जातम् (इति) मन्ये उत्प्रेक्षे, यस्मात् हेतोः त्वम् अस्मान् पूर्वं तव प्राणप्रियतया विख्यातान् तव प्रियदारान् अपि किमुतान्यं परिजनमित्यपिना व्यज्यते, स्निग्धया स्नेहार्द्रया दृशा दृष्ट्या नहि नैनं पश्यसि अवलोकयसि / हे देव ! सर्वविधक्रीडाभिज्ञ ! द्युतिमन् ! इति वा, पश्य अवलोकय इयं प्रत्यक्षदृश्यमाना सारिका शुकवधूः 'किञ्चित् पश्चात् स्वल्पकालानन्तरमेव लघुगतिः त्वरितगमनः सन् भूयः पुनः उत्तरेण एव उत्तरां दिशमाश्रित्य मा मा नैव नैव व्रज गच्छ' (इति) सरसं सस्नेहं वदति कथयति / अस्माकं त्वयि स्नेहस्य का कथा, मदीयेयं सारिकाऽपि त्वय्येवं स्निह्यतीति त्वयाऽपि सर्वोऽयं परिजनः स्निग्धया दृशाऽवश्यमवलोकनीय इति भावः /