SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 17 / शीलदूतम् (स्थुलभद्र चरित्रम्) आस्तां चेतनस्नेहकथाऽचेतनस्यापि सैव स्थितिरित्याह - आलापैस्त्वां मृगय मुदितः कोमलैः कोकिलायाः, क्रीडारामो भवदुपचितः स्वागतं पृच्छतीव / नो नीचोऽपि प्रयणनिभृते भाग्यलभ्ये चिराद्वा, प्राप्ते मित्रे भवति विमुखः किं पुनर्य स्तथोच्चैः ? / / 17 / / व्याख्या - 'मुदितः बहुकालानन्तरं भवदागमनं दृष्ट्वा जातहर्षः, भवदुपचितः भवता त्वया उपचितः वृद्धिं नीतः क्रीडा रामः क्रीडार्थं निर्मित आरामः उपवनम् कोमलैः मृदुलैः कोकिलायाः पिक्या आलापैः सस्वरवचनैः त्वां भवन्तं स्वागतम् सुखपूर्वकमागमनम् (अभून्नवेति ?) आङ् पूर्वकाद् गमे र्भावे क्लीवे क्तः, पृच्छति ज्ञातुमिच्छति इव इत्युत्प्रेक्षा / तां समर्थयति - वा अथवा भाग्यलम्ये भाग्येन दैवानुकूल्येन लभ्ये प्राप्तव्ये प्रणयनिभृते गाढप्रेम्णा निश्चले मित्रे सुहृदि हितकारके चिरात् बहुकालानन्तरं प्राप्ते आगते सति, नीचः प्रकृत्या स्वरूपेण वा हीनः अपि (जनः) विमुखः सत्कारपराङ्मुखो न भवति यः (क्रीडा रामः) तथा तेन विज्ञातेन प्रकारेण उच्चैः उन्नतः (सः) किम् पुनः विमुखो भवतीति कथं सम्भाव्यत इति भावः | एतावताप्य स्निह्यन्तं मातृभक्त्या बन्धुमाह - दने मासान्नव किल मया मध्यमध्ये सुधीमन् ?,. वृद्धिं नीतः सरसमधुराहारयोगाद् भवान् वा / गेहस्थोऽपि प्रिय ! गुरुगुणां मातरं मानयनां, सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु / / 18 / / व्याख्या - हे सुधीमन् ? धीरस्ति अस्येति धीमान् शोभनः धीमान् सुधीमान्
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy