SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ - 18 शीलदूतम् (स्थुलभद्र चरित्रम्) तदामन्त्रम्, भवान् स्थूलभद्रः यया मात्रा नव मासान् मासनवकम् अभिव्याप्य 'कालाध्वनो ाप्तौ [2-2-42]' इति द्वितीया विभक्तिः मध्यमध्ये मध्यस्य शरीरमध्यभागस्य उदरस्य मध्ये अन्तः दघ्ने धृतः वा किञ्च सरसमधुराहारयोगात् रसेन आस्वादेन, अथ च आहारपरिणामजन्येन धातुविशेषेण सह वर्तत इति सरसः स चासौ मधुरश्चाहारः भोजनं तस्य योगात् उपयोगात् वृद्धिं शरीरसमृद्धिं नीतः प्रापितः, हे प्रिय ! प्रेमास्पदभूत ! गेहस्थः गृहे तिष्ठन् एनां पूर्वोद्दिष्टां गुरुगुणाम् गुरोः ज्ञान प्रदस्य गुणाः यस्यां ताम् मातरम् जननीम् मानयस्व सत्कुरुष्व, सद्भावार्द्रः सद्भावेन निष्कपटाशयेन आर्द्रः सस्नेहः उपकारः महत्सु श्रेष्ठजनेषु न चिरेण शीघ्रम् फलति प्रत्युपकाररूपेण परिणमते / इह स्थितेन त्वयाऽस्य गृहस्य शोभावृद्धिः स्यादिति प्ररोचयति त्वय्यायाते धरणिरमणीसारश्रृङ्गाररूपे, . प्रासादोऽयं प्रिय ! निजरुचा जेष्यति स्वर्गलोकम् / विष्वक्शुद्धस्फटिकरचितस्त्विन्द्रनीलाग्रभागो, मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः / / 19 / / व्याख्या - हे प्रिय ! प्रीतिदायक ! धरणिरमणीसारश्रृङ्गाररूपे धरति लोकान् इति धरणिः ‘ऋदृसृ० [उणा० 451] इत्यणिः, पृथ्वी, सैव रमणी, रमयति पतिम् इति ण्यन्तादनटि रमणी स्त्री, तस्याः सारश्रृङ्गाररूपे उत्तमालङ्कारतुल्ये त्वयि भवति आयाते स्वस्मिन् प्राप्ते सति विष्वक् सर्वतः शुद्धस्फटिकेन विमलस्फटिकोपलेन रचितः निर्मितः, इन्द्रनीलाग्रभागः इन्द्रनीलमणिनिर्मितः अग्रभागः शिखरभागो यस्य सः, मध्ये श्यामः कृष्णवर्णः शेषविस्तारपाण्डु शेषे मध्यातिरिक्ते विस्तारे परिणाहे पाण्डुः गौरवर्णः भुवः पृथिव्याः स्तनः कुच इव (प्रतीयमानः) अयम् प्रत्यक्षभूतः प्रासादः प्रसीदन्ति जनमनांसि अस्मिन् इत्यर्थे घञि उपसर्गस्य दीर्घ प्रासादः अट्टः भूपगृहाकारं गृहम्, तु
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy