SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 19 / शीलदूतम् (स्थुलभद्र चरित्रम्) इति अन्य व्यवच्छेदार्थः स एवेत्यर्थः स एवेत्यर्थः निजरुचा स्वशोभया स्वर्गलोकं दिवं जेष्यति अभिभविष्यति / गृहसमीपस्थं विशेषं दर्शयन्ती प्ररोचयति - क्रीडाशैले कलय विपुले निर्झराली किलतां, यत्रावाभ्यां श्रमहतिकृते क्रीडितं नाथ ! पूर्वम् / यामालोक्याकलयति कलं चित्रमत्रत्यलोको, भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य / / 20 / / व्याख्या - - हे नाथ ! स्वामिन् !, यत्र क्रीडाशैले आवाभ्यां मया त्वया च श्रमहतिकृते श्रमस्य रतिक्रीडाजातशैथिल्यस्य हतेः नाशस्य कृते हेतोः पूर्वं त्वत् प्रव्रजनात् प्राक्समये क्रीडितम् विनोदः कृतः (तत्र) विपुले विस्तृते क्रीडाशैले क्रीडार्थमेव निर्मिते कृत्रिम पर्वते एतां प्रत्यक्षदृश्यमानां निर्झरालीम् कृत्रिम जलप्रपातततिम् कलय अवलोकय किल निश्चयेन, अत्रत्यलोक इहस्थजनसमूहः याम् निर्झरालीम् गजस्य करिणः अङ्गे शरीरे भक्तिच्छैदेः भक्तीनां रचना रेखाणां ('भक्तिनिषेवणे भागे रचनायाम् इति शब्दार्णवः) छेदैः विभागैः विरचिताम् निर्मिताम् भूतिं श्रृङ्गारम् ('भूतिर्मातङ्गश्रृङ्गारे जातौ भस्मनि सम्पदि इति विश्वः) इव आलोक्य दृष्ट्वा चित्रं आश्चर्यम् आकलयति प्राप्नोति / अथ धनेनापि प्रलोभयति - ... मा मुञ्चेदं धनमनिधनं नाथ ! सम्पूरिताशं, सर्वं चैनं निजपरिजनं त्वय्यतिस्नेहयुक्तम् / नीतिज्ञोऽपि प्रथितमहिमन् ! वेत्सि नैतत्कथं यत् ? . - रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय / / 21 / /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy