________________ शीलदूतम् (स्थुलभद्र चरित्रम्) पुनरपि बहुजनस्नेहप्रकटनेन साधुवेषत्यागाय यतते - पश्य स्वामिन् ! निजपरिजनं त्वद्वियोगार्तिदीनं, हीनं स्थाने जलविरहिते मीनवत्पीनदुःखम् / त्वत्संयोगे मुदितमनसो वीक्षिता यस्य शस्या, स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् / / 12 / / व्याख्या - __ हे स्वामिन् ! नाथ ! त्वद्वियोगार्तिदीनं तव वियोगः विरहः त्वद्वियोगः तस्मिन् सति या आर्तिः पीडा तया दीनम् दुःखितम् हीनं परित्यक्तं निजपरिजनम् स्वानुचरवर्गम् जलविरहिते पानीयशून्ये स्थाने प्रदेशे मीनवत् मत्स्यतुल्यं पीनदुःखम् पीनम् पृथुलं दुःखं कष्टं यस्य तादृशम् पश्य अवलोकय, त्वत्संयोगे पुनस्त्वया सह मेलने सति मुदितमनसः प्रलन्नचेतसः यस्य परिजनस्य निरविरहजं बहुकालवियोगसम्भवम् उष्णं दुःखोद्रेकात् तप्तम् बाष्पम् अन्तरूष्माणं चक्षुर्जलं च मुञ्चतः त्यजतः शस्या प्रशंसनीया स्नेहव्यक्तिः स्निह्यत्यनेनेति स्नेहः प्रेम, तस्य व्यक्तिः प्राकट्यं वीक्षिता अवलोकिता / तथा चायमवश्यं त्वयाऽपि स्निग्धदृष्ट्याऽवलोकनीयः परिजन इति भावः / यति भावत्यागेऽकीर्तिसम्भावनां निरस्यति - ' मा जानीष्व त्वमिति मतिमन् ! संयमं मुञ्चतो मे, नाशं यास्यत्यवनिविदिता कीर्तिविस्फूतिरेषा / सिद्धिं याता पुनरपि यथा सिन्धुपूरः प्रदानैः, क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य / / 13 / / * व्याख्या - हे मतिमन् ! मतिः मननशक्तिः अस्ति अस्येति मतिमन् तत् सम्बोधनम्,