SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 12 शीलदूतम् (स्थुलभद्र चरित्रम्) स्वामिन्नङ्गीकुरु परिचितं स्वाधिकारं पुनस्तं, भोगान् भुक्ष्व प्रिय ! सह मया साधुवेषं विहाय / दोलाकेलिं किल कलयत: कौतुकात् काननान्तः, सम्पत्स्यन्ते नभसि भवतो राजहंसा: सहाया: / / 11 / / व्याख्या - __ हे स्वामिन् ! स्वम् अस्ति अस्येत्यर्थे 'स्वामिन्नीशे [7-2-49]' इति निपातनात् साधुः, नाथ ! परिचितं पूर्वपुरुषानुक्रमादागतत्वेन विज्ञातपूर्वम् तं प्रसिद्ध स्वाधिकार मन्त्रित्वनियोगं पुनः भूयः अङ्गीकुरु स्वीकुरु हे प्रिय! प्रीणातीति प्रियः, प्रीधातोः 'नाम्युपान्त्यप्रीकृगृज्ञः कः [5-4-54] इति के साधुः तत् सम्बोधनम् मनोज्ञ, साधुवेषं यतिस्वरूपं विहाय परित्यज्य मया तव प्रियया सह साकं भोगान् भुज्यन्ते इति भोगाः, भुजेः कर्मणि घञ्, स्रक्चन्दनादिविषयाः तान् भुक्ष्व उपयुज्यस्व, कौतुकात् उत्कण्ठातः काननान्तः उपवनमध्ये दोलाकेलिं दोलायां प्रेखोलायाम् (उपविश्य) केलिः क्रीडा दोलाकेलिः तां कलयतः विदधतः भवतः तव नभसि गगने श्रावणमासे च (श्रावणे दोलाकेलेरतिप्रसिद्धेः) राजहंसाः हंसानां राजानो राजहंसाः, षष्ठी समासे 'राजदन्तादिषु [3-1-149] इति पूर्वनिपातार्हस्य परप्रयोगात् राजहंसाः इति, 'राजहंसास्त्वमी चञ्चुचरणैरतिलोहितैः' इति श्रीहैमाभिधानचिन्तामणिकोशवचनात् अतिलोहितैश्चञ्चु चरणैर्लक्षिता हंसजातीयाः पक्षिणो राजहंसा इत्युच्यन्ते, ते सहायाः सह अयंते गच्छन्तीति सहाया अनुगामिनः सेवका वा / 'सहायोऽभिचरोऽनोश्च, जीवो-गामी-चर-प्लवाः | सेवकोऽथ सेवा भक्तिः, परिचर्या प्रसादना / / ' [इति श्रीहैमाभिधानचिन्तामणिकोशे मयंकाण्डे 3, श्लो० 496] सम्पत्स्यन्ते भविष्यन्ति /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy