________________ 63 शीलदूतम् (स्थुलभद्र चरित्रम्) अनवलोक्य अलम् अत्यर्थं खिद्यते दूयते, व्यपगतशुचः विच्छेदात् स्वार्थसाधकत्वाभावाच्च व्यपगता नष्टा शुक् भवद्विषयकं दुःखं येषां ते, ते पूर्ववर्णिताः स्वजननिचयाः स्वबन्धुवर्गाः अपि किमुतान्ये सुहृदादयः हंसाः पक्षिविशेषाः (व्यपगतशुचः, अतिवाहित ग्रीष्मकालाः) सत्सरोवत् स्वच्छह्रदवत्, प्रान्तं समीपं प्राप्तम् आयातम् त्वां भवन्तम् प्रेक्ष्य अवलोक्य अपि न ध्यास्यन्ति न स्मरिष्यन्ति / - हे मुग्धे ! सरले ! एवम् उक्तरूपः गुणफणभृताम् गुणा एव फणाः सर्पमस्तकानि बिभ्रति धारयन्ति इति तेषां (अत्र ‘गुणगणभृताम् इति पाठः समीचीनः प्रतिभाति गुणानां फणैः सह साम्याभावात् तादृशरूपकस्यायोग्यत्वात्) निःसङ्गानां सांसारिकसम्पर्कशून्यानां श्रीगुरूणां श्रिया युक्तानां धर्मोपदेशकानाम् भवभयहरः सांसारिकभीतिनिवारकः यः पूर्वोक्तरूपः पुण्योपदेशः पुण्यजनकः उपदेशः मया स्थूलभद्रेण अश्रावि श्रुतः अत्र ततो दूरं तव समीपे स्थितः अपि, द्युतितति भृता कान्तिसमूहधारिणा हारेण मुक्तामालया उपान्तस्फुरिततडितं. उपान्ते समीपे स्फुरिता चञ्चला तडित् विद्युत् यस्याः तामिव त्वां भवती प्रेक्ष्य अवलोक्य अपि, मनोऽन्तः हृदयमध्ये तम् उक्तमुप देशम् एव केवलं स्मरामि ध्यायामि / स्वकृतं कामविजयमुद्घोषयति - जिग्ये कामः सुतनु ! स मया शीलमासाद्य यस्मात्, संज्ञाहीनौ रसकुरुवकावप्यहो ! स्तः सरागौ / नार्या एकोऽभिलषति भृशं दर्शनं मण्डिताया, वाञ्छत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः / / 85 / / व्याख्या - . हे सुतनु ! सुदेहे ! सुकृशशरीरे ! वा मया स्थूलभद्रेण शीलम् ब्रह्मचर्यं आसाद्य प्राप्य स वक्ष्यमाण गुणविशिष्ट कामः कन्दर्पः जिग्ये