________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - __ 'हे सुभग ! सौभाग्यशालिन् सुन्दर इति वा, ते तव विरहात् वियोगात् हीनं क्षीनं, दीनं परितप्तं, धुताऽऽहारनीरं धुते परित्यक्ते आहारनीरे भोजनजले येन तादृशम् इदं प्रत्यक्षदृश्यमानं मे मम (कौशायाः) वपुः शरीरम् अन्यैः त्वत्संयोगातिरिक्तैः प्रयोगैः उपायैः उपचितिं परिपुष्टिं न याति प्राप्नोति (इति) पश्य प्रत्यक्षमवलोकय / अहं त्वंद्वियोगाविकला काचिदबला बहु विस्तृतं निगदितुं कथयितुं न जाने अवगच्छामि, (केवलमेतावदेव प्रार्थयामि यत् इदं मे वपुः / त्वद्वियोर्तिजातं तव भवतः वियोगेन विरहेण या आतिः पीडा तया जातम् उत्पन्नं कार्यं दौर्बल्यम् येन पूर्वोक्त रीत्या स्पष्टेन विधिना उपायेन (तव संयोगरूपेण) त्यजति परिहरति स विधिः त्वया भवता एव उपपाद्यः सम्पादनीयः / अथस्य पूर्वाकृतौदार्यादिप्रकटनपूर्वकं प्रवर्तनावाक्यमाह - . गेहं देहं श्रिय इव भवत् कारितं भर्त्तरेतद्, भाग्यैर्लभ्यं नय सफलतां स्वोपभोगेन नाथ ? / स्वल्पीभूते स्वकृतसुकृते नाकिनां भूगतानां, ' शेषैः पुण्यै र्हतमिव दिवः कान्तिमत् खण्डमेकम् / / 32 / / व्याख्या - 'हे भर्त्तः ? बिभर्ति पोषयति इति भर्ती तदामन्त्रणम्, धनादिनापरिपोषक? श्रियः लक्ष्म्याः देहं शरीरम् इव (सुन्दरमिति भावः) भवत्कारितम् त्वयैव निर्मापितम् एतद् प्रत्यक्षम् गेहम् भवनं भाग्यैः सुकृतादृष्टैः लभ्यम् प्राप्यम् (किञ्च) स्वकृतसुकृते स्वानुष्ठितपुण्ये स्वल्पीभूते तनुतां प्राप्ते भूगतानां मर्त्यलोकमायातानां नाकिना न अकं दुःखं यत्र स नाकः स्वर्गम्, स निवासोऽस्त्येषामिति नाकिनो देवाः तेषाम्, शेषैः भुक्तावृशिष्टैः पुण्यैः सुकृतेः हृतं आनीतम् कान्ति मत् शाभायुक्तम् दिवः स्वर्गस्य एकम् खण्डम्