SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 29 . शीलदूतम् (स्थुलभद्र चरित्रम्) अवयव इव (एतद् गेहं) हे नाथ ! स्वामिन् ! स्वोपभोगेन स्वस्य आत्मन उपभोगेन उपयोगेन सफलतां सार्थक्यं नय प्रापय / त्यक्त गृहस्य परित्यक्तमन्त्रिव्यापारस्य चास्य धनं दुर्लभम्, धनेन रहितस्य चास्य सेवनेन ममापि लाभो न स्यादिति धनोपार्जनाय व्याजान्तरेण प्रेरयति - अङ्गीकृत्य प्रिय ! गुरुतरां मन्त्रिमुद्रां समुद्रां, दानैरस्यां पुरि हर चिरं लोकदारिद्र्यमुद्राम् / यत्रावन्त्यामिव सुरसरिद्धन्ति तापं च शीतः, सिप्रा वात: प्रियतम इव प्रार्थनाचाटुकारः / / 33 / / व्याख्या - 'हे प्रिय ! अभीष्ट ? गुरुतरां बहुतरगौरवयुक्तां समुद्रां मुद्रा तत्तत्पदस्थजनप्रत्ययकारिणी अकिताक्षरा धात्वादिनिर्मिता ‘मोहर' इति नाम्ना प्रसिद्धा तया सहितां मन्त्रिमुद्रां मन्त्रित्वचिन्हम् अङ्गीकृत्य स्वीकृत्य नन्दराज मन्त्रिपदमधिष्ठायेत्यर्थः, अस्यां पुरि पाटलिपुत्रनगर्यां दानैः अन्नवस्त्रहिरण्यादीनां वितरणैः लोकदारिद्र्यमुद्रां लोकानां जनानां दारिद्र्यस्य मुद्राम् आकारस्य विशेषं हर अपनयः यत्र यस्यां पुरि (पाटलिपुत्रे) शिप्रा विशालानगरीपर्यन्तवाहिनी नदी सा इव सुरसरित् देवनदी गङ्गा, प्रार्थना * चाटुकारः प्रार्थनायां सुरतयाच्जायां चाटुं प्रियवचनप्रयोगं करोतीति तादृशः प्रियतमः प्राणवल्लभ इव शीतः शीतलस्पर्शवान् वातः वायुः च तापं रत्यादिजातखेदं हरति नाशयति / प्ररोचनार्थं पुनरपि पाटलिपुत्रनगरमेव वर्णयति - पश्य स्वामिन् ! सुविपुलमिदं पाटलीपुत्रद्रङ्ग, गङ्गोत्सङ्गे नृपतितिलक: कोणिकोऽस्थापयद् यत् /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy