SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 48 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे नाथ ! स्वामिन् ! जिनपतिमहाचैत्यपूते जिनपतीनां जिनेश्वराणां तीर्थंकराणां महाचैत्यैः बृहद्भिर्मन्दिरैः पूते पवित्रीकृते प्रभूते अतिशयशालिनि यत्र क्रीडाशैले विबुधनिचयाः देववृन्दाः स्वाद्रिं स्वावासभूतं पर्वतं सुमेरुं हित्वा परित्यज्य स्त्रीभिः वनिताभिः सार्धं समं खेलन्ति विहरन्ति, तिर्यग्व्यापी तिर्यग् निरश्चीनरूपेण व्याप्नोति अभिव्याप्य तिष्ठति तच्छीलः अभंगतः मेघपर्यन्तं प्राप्तः अञ्जनगिरिः तन्नामकपर्वतइ व यः क्रीडाशैलः बलिनियमनाऽभ्युद्यतस्य बलेः तन्नाम्नो दानवराजस्य निमयनाय संयमनाय अभ्युद्यतस्य तत्परस्य विष्णोः वामनावतारिणो हरेः श्यामः कृष्णवर्णः पादः चरण इव भ्राजते शोभते / / यदि मदीयावास समीपस्थे क्रीडासैले न रुचिस्तर्हि पर्वतीये पित्र्ये प्रासादे वसेत्याह - शैले लीलागृहमिह महत् कारितं तेऽस्ति पित्रा, तस्मिन् वासं कुरू वर ? चिरं चेदतिर्नो तवाऽत्र / श्वेतज्योतिः स्फटिकमणिभिर्निमितं भ्राजते य द्राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहास: / / 62 / / व्याख्या - हे वर ! वियते प्रियत्वेन स्वीक्रियते इति वरः तदामन्त्रणम्, चेत् यदि अत्र मदागारसन्निकटे क्रीडाशैले तव भवतः रतिः रुचिः न नास्ति (तर्हि) इह एतत्समीपस्थे ते तव पित्रा जनकेन मन्त्रिणा शकटालेन शैले पर्वतोपरि महत् सुविशालम् लीलागृहम् विनोदभवनम् कारितं निर्मापितम् अस्ति विद्यते तस्मिन् गृहे चिरं बहुकालं व्याप्य वासं स्थितिं कुरु विधेहि / स्फटिक्रमणिभिः स्वनामख्यातरत्नैः निर्मितम् रचितं श्वेतज्योतिः शुक्लप्रकाशं यद् गृहं, प्रतिदिनं दिने दिने राशीभूतः एकत्रितः त्र्यम्बकस्य त्रीणि
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy