________________ 49 . शीलदूतम् (स्थुलभद्र चरित्रम्) अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवः तस्य अट्टहासः अति महान हासः अट्टहासः (अट्टहासो महीयसिः, अभि० 2-211, मृडोऽट्टहासिन् इत्यादिः अभि० 2.111) शिवस्य हासः प्रसिद्धः स इव यथा भ्राजते शोभते / ____ कविसम्प्रदाये हासस्य श्वेतं रूपं प्रसिद्धम्, शिवश्चा ट्टहासी ख्यातः, तदीयाट्टहासस्य राशिरिवेदं भवनं प्रतीयते इत्युत्प्रेक्षालङ्कारः || तद्भवनगवाक्षसमीपे स्थितस्यास्य भाविनी शोभा वर्णयति - त्वय्यारूढे रजतरचितं सारमुच्चैर्गवाक्षं, देहच्छायाजितहरिरुचौ चारु कृत्वा विनोदान् / पश्यत्वेष प्रिय ? परिजनः साधु सोधस्य शोभा - मंसन्यस्ते सति हलभृतो मेचके वाससीव / / 63 / / व्याख्या .. ... हे प्रिय ! देहच्छायाजितहरिरुचौ देहस्य शरीरस्य छायया कान्त्या जिता हरेः विष्णोः रुचिः कान्तिः येन तादृशे त्वयि स्थूलभद्रे चाह सम्यक् विनोदान् विहारान् कृत्वा विधाय रजतरचितम् रजते चन्द्र द्रव्येण रचितं निर्मितम् सारम् दृढम् उच्चैः प्रोन्नतं गवाक्षं वातायनम् आरूढे अधिष्ठिते (सति) एष त्वत्सन्निहितः परिजन सेवकवर्गः मेचके नीले वाससि वस्त्रे अंशन्यस्ते स्कन्धोपरिस्थापिते सति विद्यमाने हलभृतः बालरामस्य इव यथा शोभा कान्तिं पश्यतु अवलोकयतु / / तत्रत्यं कर्तव्यमाह - तस्मिन्नद्रौ भवभयहरं नाभिजन्मानमीशं, .. नत्वा देवं तदनु सुभगाऽऽलोकयेः कौतुकानि /