SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) अ यान्त्या मे भवदनु पुनवर्त्म कुर्वन् सुगम्यं, सोपानत्वं कुरुमणितटारोहणायाग्रयायी / / 64 / / व्याख्या - __ हे सुभग ! अस्मिन् पूर्वोक्ते अद्रौ पर्वते भवभयहर सांसारिकभीतिनिवारकं देवं नाभिजन्मानम् नाभेः विष्णुनाभिकमलाञ्जन्म यस्यासौ नाभिजन्मा ब्रह्मा तम् अथ च नाभे स्तन्नाम्नो राज्ञो जन्म यस्य तं नाभेयं आद्यं जिनविशेषम् ईशम् ऐश्वर्यशालिनं नत्वा प्रणम्य तदनु प्रणामानन्तरम् कौतुकानि तत्रत्याद्भुतानि आलोकयेः पश्येः / पुन तत्पश्चात् भवदनु भवतः पश्चाद् आयान्त्याः आगच्छन्त्याः मे मम कोशायाः सुगम्यम् सुखेन गन्तुं योग्यं वर्त्म मार्गम् कुर्वन् विदधत् अग्रयायी अग्रे यातुं शीलमस्येति तथाभूतः मणितटारोहणाय तस्यैव पर्वतस्य मणिभि विहिते तटे प्रान्तभांगे आरोहणाय उपरिगमनाय सोपानत्वं निःश्रेणिकाभावं कुरु विधेहि / / तत्रत्यमेव विशेषं वर्णयति - शृङ्गे तस्मिन् नयनसुभगं चारुरूपा यदि त्वां,... विद्याधर्यः स्मरविधुरिताः प्रार्थयेयुर्निरीक्ष्य / / अक्षोभ्यस्त्वं सुरयुवतिभि नाथ ! धिक्कारवाचां, क्रीडालोला: श्रवणपरुषैर्जितैर्भाययेस्ताः / / 65 / / / व्याख्या - हे नाथ ! स्वामिन् ! तस्मिन् मणिनिर्मिते शृङ्गे पर्वत शिखरे चारुरूपाः चारु मनोहरं रूपं यासां ताः स्मरविधुरिताः स्मरेण कामेन विधुरिताः पीडिताः विद्याधर्यः विद्याधरदेवजातिवनिताः नयनसुभगं नयनयोः नेत्रयोः कृते सुभगं सुन्दरं त्वां स्थूलभद्रं निरीक्ष्य समवलोक्य प्रार्थयेयुः रत्यर्थं प्रेरयेयुः तर्हि सुरयुवतिभिः देवतरुणिभिः
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy