SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 51 . शीलदूतम् (स्थुलभद्र चरित्रम्) (अपि) अक्षोभ्यः चारित्रादविचालनीयः त्वम् धिक्कारवाचां तिरस्कारवचसां श्रवणपरुषैः कर्णकटुभिः गर्जितैः उच्चै र्वचनैः क्रीडालोला लीलाव्यग्राः ताः विद्याधरांः भायये भीताः कुर्याः / / पुन स्तत्रत्य विहारप्रकारमेव वर्णयति - आरामेषु प्रिय ! विरचयं स्तत्र पुष्पावचायं, श्रान्तो भ्रान्त्या सुभग ! विदधद् दीर्घिकास्वम्बुकेलिम् / वादित्राणां मधुरनिनदैर्नर्तयन् केकिवृन्दं, नानाचेष्टैर्जलदललितै निर्विशेस्तं नगेन्द्रम् / / 66 / / . व्याख्या - हे प्रिय ! हे सुभग ! तत्र पितुः पर्वतीयावासे आरामेषु उपवनेषु पुष्पावचायम् पुष्पाणां हस्तप्राप्याणां क्षुद्रवृक्षकुसुमानाम् अवचायम् अवचनम् (हस्तप्राप्ये चेरस्तैये [५-३-७८ट इति घञि) अवचायः तं संग्रहं विरचयम् विदधत् भ्रान्त्या भ्रमणेन बहुकालं पादविहारेण श्रान्तः श्रमं प्राप्तः दीर्घिकासु वापीसु अम्बुकेलिं जलक्रीडां विदधत् कुर्वन्, वादित्राणां मृदङ्गादिवाद्यानाम् मधुरनिनदैः मधुरैः शब्दैः केकिवृन्दं मयूर समूहं नर्तयन् नृत्यं कारयन् नानाचेष्टैः नानाबहुविधाः चेष्टाः क्रिया यस्मिंस्तथाभूतैः जलदललितैः जलदवत् मेघवत् ललितैः क्रीडितैः तं पूर्वोक्तम् नगेन्द्रम् पर्वत श्रेष्ठं निर्विशेः उपभुजैः / / पर्वते कतिचिद्दिन्यान्यतिवाह्य पुनरपि पाटलिपुत्रमेवागच्छेरित्याह आगच्छेः स्वां पुनरपि पुरं नाथ ! नीत्वा दिनानि, क्रीडाशैले कतिचिदसमां दर्शयन् स्वश्रियं ताम् / यत्राभ्राप्तैर्वहति बहुलै धूपधूमैः सदा द्यौमुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् / / 67 / /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy