SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 83 शीलदूतम् (स्थुलभद्र चरित्रम्) दिक्षु संसक्ताः पर्यस्ता ये प्रविरला विकीर्णा घनाः मेघाः तैः व्यस्तः दूरं क्षिप्तः सूर्यातपः दिवाकरप्रतापः येषु तानि प्रावृषः वर्षाः अहानि दिनानि नीत्वा अतिवाह्य गन्तव्यम् त्वद्गृहं परित्यज्य विहारः कार्य इत्यर्थः || त्वद्विरहे दुःखितया मम कुतो धर्माचरणं संभवनेति चेदत्राह - ज्ञाते धर्मे जिननिगदिते तेऽपि नो भावि दुःखं, मुग्धे ! तस्मादिह परभवे लप्स्यसे त्वं च सौख्यम् / अस्मच्चेतो जिनमतगतं नाऽभजत् क्वापि दुःखं, गाढोष्माभिः कृतमशरणं त्वदवियोगव्यथाभिः / / 115 / / व्याख्या - हे मुग्धे सरले ! जिननिगदिते जिनेन सर्वज्ञेन प्रोक्ते धर्मे जैनधर्मे ज्ञाते परिचिते अभ्यस्ते च सति ते भवत्या अपि इह संसारे दुःखम् कामादि पीडा नो भावि नैव भविष्यति, तस्मात् धर्मात् कारणात् परभवे च उत्तरस्मिन् जन्मनि च त्वं भवती सौख्यं स्वर्गादिसुखमेव लप्स्यसे प्राप्स्यसि / गाढोष्माभिः गाढः घनीभूतः उष्मा तापः यासु ताभिः त्वद्वियोगव्यथाभिः तव भवत्या वियोगस्य विरहस्य व्यथाभिः पीडाभिः अशरणं आश्रयहीनं कृतं विहितम् अस्मच्चेतः मदीयं मनः क्वापि कस्मिन्नपि काले देशे वा दुःखम् कष्टं न अभजत् नान्वभवत् / / पुनरपि धर्मोपदेशमेव विदधाति जैने धर्मे कुरु निजमति निश्चलां तन्वि ! नित्यं, शीलं धेहीहितसुखकरं देहि दानं गुणिभ्यः / पापव्यापव्यतिकरजुषां धर्मभाजां च पुंसां, नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण / / 116 / / .
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy