________________ 84 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे नन्वि ! कृशे ! जैने जिनोक्ते धर्मे सुकृते नित्यं प्रतिदिनं निजमतिं स्वबुद्धिम् निश्चलां स्थिरां कुरु विधेहि, ईहितसुखकरं करोतीति करः, ईहितस्य सुखस्य करः ईहितसुखकरः तं शीलं ब्रह्मचर्यं शीलव्रतं धेहि धारय, गुणिभ्यः विद्वद्भ्यः दानं दीयते यद् तद् दानम् दातव्यं धनानि देहि वितर, कुत एतदनुष्ठेयमितिचेद् अत्राह - पापव्यापव्यतिकरजुषां पापानां व्यापन्नं पापव्यापः भावे घञ्, तस्य व्यतिकरः सम्बन्धो व्यशनं वा तं जुषन्ति सेवन्त इति तेषां, धर्मभाजां धार्मिकाणां च पुसां नराणाम् दशा तत्फलभोगावस्था चक्रनेमिक्रमेण चक्रस्य यः नेमिः प्रान्तभागः तस्य क्रमेण परिपाट्या नीचैः अधः उपरि ऊर्ध्वं च गच्छति / तपोऽनुष्ठातुमुपदिशन् तस्य प्रशंसामपि प्रस्तौति - शुद्धिं भद्रे ! रचय तपसा स्वस्य तेनात्मनस्त्वं, दृष्ट्वा क्लृप्तं मुनिभिरतुलं यद् वनस्थैस्त्रिशुद्ध्या / हर्षेणोच्चैर्दिवि दिविषदां पुष्पवृष्ट्या समं स्राग, मुक्तास्थूलास्तरुकिशलयेष्वश्रुलेशाः पतन्ति / / 117 / / व्याख्या - हे भद्रे ! कल्याणि ! तेन पूर्वोक्तेन धर्मभाजामूर्ध्वगतिरितिज्ञातेन, तपसा अशन-पान-खादिम-स्वादिम त्यागरूपोपवासादिविविधतपश्चर्यानुष्ठानैः आत्मनः स्वस्य शरीरस्य मनसः वाचश्च शुद्धिं निर्मलतां रचय विधेहि, वनस्थैः पुरं विहाय वने तिष्ठद्भिः मुनिभिः त्रिशुद्ध्या त्रयाणां कायमनोवचसां शुद्ध्या पवित्रीकरणेन क्लृप्तं विहितं यत् तपः दृष्ट्वा समवलोक्य हर्षेण आनन्दातिरेकेण दिवि स्वर्गे दिविषदां देवानां उच्चैः उन्नतयाउत्कृष्ट्या