SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 85 शीलदूतम् (स्थुलभद्र चरित्रम्) वा पुष्पवृष्ट्यां कुसुमवर्षणेन समं सह, मुक्तास्थूलाः मुक्तावत् मौक्तिकवत् स्थूलाः बृहन्तः अश्रुलेशाः अश्रुबिन्दवः तरुकिसलयेषु वृक्षाणां नूतनपत्रेषु स्राक् झटिति पतन्ति क्षरन्ति / / अथ प्रबुद्धा कोशोवाच - कोशा प्रोचे प्रिय ! विगलिता साऽद्य मे भोगतृष्णा, वाक्यैरेभिस्तव हृदि निजे या मयेत्थं धृताऽभूत् / आवां भूयो विरहविगमे भोगभङ्गी विचित्रां, निर्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु / / 118 / / व्याख्या - ___ कोशा नायिका प्रोचे प्रत्युत्तररूपेणोक्तवती किमित्याह - हे प्रिय ! स्वामिन् ! या भोगतृष्णा मया कोशया निजे स्वीये हृदि अन्तःकरणे धृता स्थापिता अभूत् आसीत् सा मे मम भोगतृष्णा भोगेषु आहार विहारादि विशेषोपयोगेषु या तृष्णा तीव्रोऽमिलाषः अद्य अस्मिन् दिवसे इत्थं पूर्वप्रकारोक्तैः एभिः सम्प्रत्येव श्रुतैः तव भवतः वाक्यैः उपदेशवचनैः विगलिता नष्टा / आवाम् अहं च त्वञ्च विरह विगमे वियोगकाले व्यतीते परिणतशरच्चन्द्रिकासु परिणता परिणामं पूर्ति प्राप्ता शरदः ऋतोः चन्द्रिका कौमुदी यासु तासु क्षपासु रात्रिषु विचित्रां अद्भुतां भोगभङ्गीं भोगानां स्रक्चन्दनाधुपयोगानां भङ्गीं परिपाटी निर्वेक्ष्यावः अनुभविष्यावः / / कोसाकामविकारशान्त्यर्थं धर्मोपदेशं प्रार्थयते - . .. स्वामिन् ! धर्माऽमृतरसमयं देहि दिव्यौषधं तद्, येनायं मे तुदति न मनो मन्मथाख्यो विकारः / त्वद् वाक्ये नोज्झितविषयया यद्वशादद्य रात्री, दृष्टः स्वप्नेऽकितव ! रमयन् कामपि त्वं मयेति / / 119 / /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy