SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 86 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे स्वामिन् ! धर्मामृतरसमयं धर्म एवामृतरसः अमृतस्यापि सारभूतः पदार्थः तन्मयम् तद्प्रचुरम् तद् प्रसिद्धं दिव्यौषधं दिवि भवम् दिव्यं तदौषधम् अगदं देहि वितर ! येन औषधेन अयं प्रत्यक्षमनुभूयमानः मन्मथाख्यः मन्मथ नामा विकारः शरीरस्य विकृति रूपः मे मम मनः चित्तं न तुदति न व्यथयति, हे अकितव ! अवञ्चक ! यद् वशात् यस्य मन्मथाख्य विकारस्य वशात् कारणात् अद्य रात्रौ अस्यामव्यहित व्यतीतायां निशि त्वद् वाक्येनोज्झितविषयया त्वदीयेन धर्मोपदेशमयेन वाक्येन परित्यक्तकामोपभोगयाऽपि मया कोशया त्वम् भवान् स्वप्ने स्वप्नावस्थायाम् कामपि मदतिरिक्तां रमणीं रमयन् रतिं कारयन् दृष्टः अवलोकितः / / अथासौ कोशाया भक्तिभावमवलोक्य प्रसन्नो नमस्कारमन्त्रं प्रादादित्याह - इत्युक्तोऽसौ चरणनतया कोशया भक्तिपूर्वं, त्वद् वृत्तेन प्रमुदितमनाः सादरं साधुराजः / प्रादादस्यै भवभयहरं स्वं नमस्कारमन्त्रं, प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव / / 120 / / व्याख्या - चरणनतया स्वपादपर्यन्तं नम्रीभूतया कोशया वेश्यया भक्तिपूर्वम् श्रद्धासहितम् इति पूर्वोक्तप्रकारेण उक्तः प्रार्थितः असौ पूर्वानुसृतवृत्तः, तदवृत्तेन तस्याः कोशाया वृत्तेन आचरणेन प्रमुदितमनाः प्रसन्नचेताः साधुराजः साधूनां राजेव मुख्य इवेति साधुराजः श्रीस्थूलभद्रमुनिवरः अस्यै कोशायै भवभयहरं संसारभीतिनिवारकं स्वं स्वेनपरिशीलितं नमस्कारमन्त्रं नमस्काराख्यं सुप्रसिद्धं महामन्त्रं सादरम् आदरसहितं प्रादात् उपदिदेश, हि यतः
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy