________________ 87 . शीलदूतम् (स्थुलभद्र चरित्रम्) ईप्सितार्थक्रिया ईप्सितस्य प्राप्तुमभिलषितस्य अर्थस्य प्रयोजनस्य क्रिया सम्पादनम् एव केवलम्, सतां सज्जनानाम् प्रणयिषु स्निग्धजनेषु प्रत्युक्तम् प्रतिवचनम् भवति / / अथापरमप्युपदेष्टव्यमुपदिशति - तामूचेऽसौ मनसि सततं मन्त्रमेनं स्मर त्वं, नित्यं भक्त्या त्रिभुवनगुरोर्जन्म सार्थं सृज स्वम् / शीलेनाऽलं विमलममले ! जैनधर्मं भजेथाः, प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः / / 121 / / व्याख्या - असौ श्रीस्थूलभद्रो मुनिप्रवरः ताम् कोशाम् ऊचे जगाद, किमित्याह - त्वं कोशा त्रिभुवनगुरोः त्रयाणां भुवनानां लोकानां समाहारः त्रिभुवनं तस्य गुरोः धर्मोपदेशकस्य एनं. पूर्वोपदिष्टम् मन्त्र श्रीनमस्कारमहामन्त्रं भक्त्या श्रद्धया नित्यं प्रतिदिनं सततं सर्वस्मिन् काले स्मर ध्यायस्व; स्वं निजं जन्म शरीर धारणं सार्थं सफलं सृज विधेहि / हे अमले ! निर्मले ! विमल सर्वदोषशून्यं जैनधर्मं जिनोपदिष्टं धर्मं शीलेन चारित्रानुशीलेनेन सह अलं अत्यन्तं भजेथाः सेवेथाः, प्रातःकुन्दप्रसवशिथिलं प्रातः प्राभातिकः कुन्दप्रसवः कुन्दाख्यपुष्पं तद्वत् शिथिलं सद्यः पतन धर्मि जीवितं जीवनं धारयेथाः बिभृयाः / / अथ तस्याः कृतकृत्यतामाह - - धन्यं मन्या मुनिवचनतोऽङ्गीचकाराऽखिलं तत्, प्रीतिं भेजे मनसि परमां साऽऽप्तसम्यक्त्वलाभा / दुष्टे द्वेषं गुरुनिगदिता यान्ति धर्मोपदेशा, इष्टे वस्तुन्युपचितरसा: प्रेमराशीभवन्ति / / 122 / /