________________ 77 शीलदूतम् (स्थुलभद्र चरित्रम्) सा, सा पूर्वोक्ता नः अस्माकं सखी आलिः कोशा, तव भवतः स्वागतं आगमनाभिनन्दनं चेत् यदि नो नैव कुर्यात् विदधीत, तदानीम् तस्मिन् समये धीरः धैर्यशाली (त्वं) स्नेहस्निग्धैः स्नेहेन प्रीत्या स्निग्धैः आर्दै: कोमलैः मधुरवचनैः मिष्टभाषणैः, आधिमुग्भिः मनोव्यथापहारकैः स्तनितवचनैः गर्जितवत् स्पष्टैर्वाक्यैश्च मानिनी प्रणयकोपशीलां कोशां प्रति वक्तुम् आलपितुं प्रक्रमेथाः उपक्रमं कुर्याः / / एवमुक्तेऽपि किमपि प्रत्युत्तरमलभमाना पृच्छति - किं काठिन्यं त्यजति न भवानागतोऽपि स्वगेहे, स्वीयां जायां न हि निजदृशा स्नेहतो वीक्षते पि ? / प्रावृट्कालो रंचयति मनांस्यध्वगानामयं द्राग, मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि / / 106 / / व्याख्या - स्वगेहे स्वीये गृहे आगतः पुनः प्राप्तः अपि भवान् काठिन्यं कठोरतां किम् कुतो न त्यजति न परिहरति ? हि यतः स्वीयां स्वाधीनां जायां पत्नी निजदृशा स्वदृष्टया स्नेहतः प्रेम्णा वोक्षतेऽपि अवलोकयन्त्यपि न ? अयं समुपस्थितः प्रावृट्कालः वर्षासमयः अध्वगानां पथिकानां मनांसि चेतांसि मन्द्रस्निग्धैः मन्द्रैः धीरैः स्निग्धैः आर्दै कोमलै र्वा ध्वनिभिः मेघशब्दैः अबलावेणिमोक्षोत्सुकानि अबलानां स्वस्वनारीणां वेण्याः केशग्रथनस्य मोक्षाय मोचनाय उत्सुकानि उत्कण्ठितानि द्राक् झटिति रचयति विदधाति / / पूर्वमियं कोशासखी श्रीस्थूलभद्रेण संमानिताऽऽसीदिति तत्स्मारणपूर्वकं स्ववचनस्य कर्तव्यतामाह - - मान्या तेऽहं सुभग ! सततं वच्मि तेनैव बाढं, . . .. वाक्यं मे तत् परिणतिशुभं मानयेदं वदान्य ! ! ! ..