________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ___ मत्तो ज्ञात्वा व्यतिकरममुं लप्स्यते निवृतिं सा, कान्तोदन्तः सुहृदुपहतः संगमात् किञ्चिदूनः / / 10 / / व्याख्या - हे सुभग ! अहं कोशा सखी ते भवतः सततं सर्व स्मिन् काले मान्या प्रतीक्ष्या (आसम्) तेन कारणेन एव केवलं, बाढम् अत्यर्थं वच्मि कथयामि, तत् तस्माद्धेतोः हे वदान्य ! परमोदार ! परिणतिशुभम् परिणतौ परिणामकाले शुभम् कल्याणकरम् मे मम इदं पूर्वोक्तं वाक्यं वचनं मानय अङ्गीकुरु | मत्तः मम मुखात् अमुं आवयोर्मध्येवृत्तं व्यतिकरम् वार्तालापादिवृत्तान्तं ज्ञात्वा अवगत्य सा कोशा निवृतिं सन्तोषं लप्स्यते प्राप्स्यति, अर्थान्तरोपन्यासेन समर्थयति सुहृदुपहृतः सुहृदा मित्रेण सख्या वा उपहृतः आनीतः कान्तोदन्तः कान्तस्य कान्ताया वा उदन्तः वृत्तान्तः सङ्गमात् साक्षान्मिलनात् कञ्चित् स्वल्पमेव ऊनः हीनः भवति / / पूर्वमावश्यकं कर्तव्यं कुशलपृच्छारूपमपि भवान्न कृतवानित्युपालभते - स्वामिन् ! जानन्नपि नयविधिं प्रोक्तवानन्यदन्यत्, क्षेमप्रश्न किमिति न भवानेकवारं चकार / विधेऽप्यस्मिन् खलु सुखभृतामप्यहो दैववश्ये, पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव / / 108 / / . व्याख्या - हे स्वामिन् ! नयविधिं लोकनीतिं जानन् विदन् अपि भवान् श्रीस्थूलभद्रः अन्यत् - अन्यत् कुशल प्रश्नादितरदितरद् वस्तु उक्तवान् कथितवान्, क्षेमप्रश्नं कुशलपृच्छाम् एकवारम् सकृदपि किमिति कस्यार्द्धतोः न चकार न कृतवान् अहो ! आश्चर्यम् / दैववश्ये भाग्याधीने अस्मिन् दृश्यमाने