SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) . कापीदस्याः प्रथममलिने मा भवान् स्नेहवत्या, सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् / / 104 / / व्याख्या - हे सदय ! दयया प्रियायाः क्लेशपरिजिही रूपया सहितः सदयः तदामन्त्रणम् 'दुःखक्षामा दुःखेन प्रियवियोगजनितेन पूर्वोक्तकष्टेन क्षमा कृषा एषा कोशा भद्बाहुभ्याम् मम स्थूलभद्रस्य बाहुभ्यां हस्ताभ्यां बाढम् दृढम् आश्लेषम् आलिङ्गनम् न खलु सहते नैव सोढुं शक्ष्यति' इदं पूर्वकथितरूपं वस्तु स्वकीये निजे मनसि चित्ते विचार्य अवधार्य भवान् स्थूलभद्रः स्नेहवत्या त्वयि परमस्निग्धायाः त्वत्परितोषाय स्वीयं दुःखमपि उपेक्षमाणाया अस्याः कोशायाः प्रथममिलने प्राथमिक समागमकाले सद्यः कष्ठच्युतभुजलताग्रन्थि सद्यः तत्कालमेव कण्ठात् गलप्रदेशात् च्युता पृष्ठदेशं प्राप्ता या भुजलता बाहुवल्लीतया ग्रन्थि परस्परस्य ग्रन्थनं यत्र तथाभूतम् गाढोपगूढम् गाढं दृढं यथा स्यात्तथा उपगूढम् आलिङ्गनम् माकार्षीत् नैव कुर्याः / / अत्र प्रथममिलने तस्या लज्जया संभावितां त्रुटिमाह - त्वामायातं शयनसदने वीक्ष्य लज्जाऽन्विताङ्गी, नो कुर्याच्चेत् तव सुहृदय ! स्वागतं सा सखी नः / स्नेहस्निग्धैर्मधुरवचनैराधिमुग्भिस्तदानीं, वक्तुं धीरः स्तनितवचनैर्मानिनी प्रक्रमेथाः / / 105 / / व्याख्या - ___ हे सहृदय ! सभानं हृदयं यस्य स सहृदयस्तत्सम्बोधनम्, शयनसदने शय्यागृहे त्वाम् भवन्तं आयातम् समागतं वीक्ष्य अवलोक्य लज्जानताङ्गी लज्जया बहुदिनानन्तरं प्रथमसमागमव्रीडया आनतं नम्रम् अङ्गं यस्याः
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy