________________ . शीलदूतम् (स्थुलभद्र चरित्रम्) कुरु स्वं स्वकीयं मनः चित्तं सुप्रसन्नम् अतिशयप्रमुदितं कुरु प्रकटय, मम सख्या - कोशया साकं सह विचित्रान् आश्चर्यजनकान् भोगान् स्रक्चन्दनाधुपयोगपूर्वकान् विहारान् पुनः भूयः पूर्ववत् भज सेवय / त्वयि भवति प्रसन्ने मुदिते सति अस्याः कोशाया वामाक्षि वामनयनं मुहुः वारं-वारं स्पन्दम् चञ्चलताम् एत्य प्राप्य मीनक्षोभात् मत्स्यसंघट्टात् चलकुवलयश्रीतुलाम् चलस्य चञ्चलस्य कुवलयस्य नीलकमलस्य श्रिया सह तुलां सादृश्यम् एष्यति प्राप्स्यति इव इत्युत्प्रेक्ष्यत इति भावः / / त्वयि सुप्रसन्ने किं किं भावीत्येव दर्शयति - जेष्यत्याऽऽस्यं प्रमुदितमलं मेघमुक्तस्य शस्या, शोभामिन्दोविकसित चेश्चारुरोचिश्चितं साक् / प्राप्ते प्रीतिं भवति सुभगाऽऽनन्दितायाः किलाऽस्या, यास्यत्यूरुः सरसकदलीस्तम्भगौर श्चलत्वम् / / 103 / / व्याख्या - हे सुभग ! भवति त्वयि प्रीतिं प्रसन्नतां प्राप्ते सति आनन्दितायाः प्रसन्नाया अस्याः मम प्रियसख्याः कोशायाः चारुरोचिश्चितम् चारुण सुन्दरेण रोचिषा कान्त्या चितम् व्याप्तम् अलम् अत्यर्थम् प्रमुदितम् प्रसन्नम् आस्यम् मुखम् मेघमुक्तस्य जलदनिर्गतस्य विकसितरुचेः विकीर्णकान्तेः इन्दोः चन्द्रस्य शस्यां प्रशंसनीयां शोभां छवि स्राक् झटिति जेयप्ति अभिभविष्यति, (तथा) सरसकदलीस्तम्भगौरः सरसः आर्द्रः यः कदली स्तम्भः रम्भाकाण्डम् तद्वत् गौरः शुभ्रः ऊरु: जघनोपरिभागः चलत्वम् कम्पम् यास्यति प्राप्स्यति किल निश्चयेन || किञ्च - उपभोगक्रममप्युपदिशति - दुःखक्षामा न खलु सहते बाढमाश्लेषमेषा, मबाहुभ्यां सदय ! मनसीदं स्वकीये विचार्य /