SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 59 शीलदूतम् (स्थुलभद्र चरित्रम्) अन्यमपि विशेषमाह - . यान्त्यो व्योम्नि त्रिदशललना वीक्ष्य यासां स्वरूपं, सर्वं गर्वं मनसि रचितं चारुतायास्त्यजन्ति / मुग्धा दुग्धोपचितवपुषः कुट्टिमेष्वस्तखेदं, संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्या: / / 78 / / व्याख्या - यत्र पाटलिपुत्रे व्योम्नि आकाशमार्गे यान्त्यः गच्छन्त्यः त्रिदशललनाः 'त्रिर्दशेत्यर्थे बहुव्रीही प्रमाणी सङ्ख्याडु: (7-3-128)' इति डे त्रिदश शब्दो निष्पद्यते / अस्य चार्थोऽनेकप्रकारेणानेकत्र वर्णितः अभिधानचिन्तामणिटीकायां च तिस्रो दशावयोऽवस्था येषां ते त्रिदशाः त्रिंशद्वर्षा मनुष्ययुवानः, त्रिदशा इव त्रिदशा इत्यपि व्युत्पत्तिर्दर्शिता / तथा च सर्वदा यौवनशालिनः इति फलति ते त्रिदशा देवाः तेषां ललनाः स्त्रियः यासां पाटलीपुत्रनगरी कन्यानां स्वरूप वीक्ष्य अवलोक्य मनसि स्वचित्ते निहितं स्थितं चारुतायाः सौन्दर्यस्य गर्वम् अभिमानं त्यजन्ति परिहरन्ति, (ताः) दुग्धोऽपचितवपुषः दुग्धेन क्षीरेण उपचितं वृद्धि प्राप्तं वपुः शरीरं यासां ताः अमरप्रार्थिताः अमरैः देवैरपि प्रार्थिता अभिलषिताः मुग्धाः ऋजवः कन्याः बालिकाः कुट्टिमेषु प्रासादपृष्ठेषु मणिभिः रत्न, (गुटिकादि स्थानीयैः) अस्तखेदं अखिन्नं यथा स्यात् तथा संक्रीडन्ते खेलन्ति | पुरीमेव प्रकारान्तरेण वर्णयति - धर्मस्वेदं सुरतजनितं योषितां यत्र रात्री, जालायातैः स्वगृहवलभीमध्यबद्धस्थितीनाम् / / सारैस्ताराधिपतिकिरणैश्च्योतिता द्योतिताशैालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः / / 79 / /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy