SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - ___यत्र पाटलिपुत्रे रात्रौ निशि स्वगृहवलभीमध्यबद्धस्थितीनां स्वगृहस्य निजागारस्य वलभ्या अट्टालिकाया मध्ये बद्धा स्थिरीकृताः स्थितिः वासो याभिः तासाम् योषितां स्त्रीणाम् सुरतजनितं कामक्रीडासमुद्भूतम् धर्मस्वेदं ऊष्मजनितदेहजलं सारैः सारभूतैः द्योतिताशैः प्रकाशित दिग्भिः ताराधिपतिकिरणैः ताराधिपतेः चन्द्रस्य किरणैः रश्मिभिः जालायातैः गवाक्षमार्गप्रविष्टैः च्योतिताः क्षरिताः स्फुटजललवस्यन्दिनः स्फुटं प्रकटं यथा स्यात् तथा जललवान् तोयकिरणान् स्यन्दन्ते क्षरन्ति इति तच्छीलाः चन्द्रकान्ताः चन्द्रकान्तनामकमणयः व्यालुम्पन्ति नाशयन्ति / तत्रत्य घनिनां त्यागस्य फलं दर्शयति - काले वर्षन्नवनिवलयं सस्यपूर्ण वितन्वन्, वाञ्छातुल्यं दिशति सलिलं यत्र धाराधरोऽपि / त्यागो यस्यां धनिभिरनिशं दीयमानोऽर्थिनांद्रा गेकं सूते सकलमबलाऽऽमण्डनं कल्पवृक्षः / / 8 / / व्याख्या - यत्र पाटलिपुत्रे काले कृष्युपयुक्तसमये वर्षन् वर्षणं कुर्वन् अवनिवलयं भूमण्डलम् सस्यपूर्ण धान्यसमृद्धं वितन्वन् रचयन् धाराधरः मेघः अपि बाञ्छातुल्यम् इच्छानुकूलं सलिलं जलम् दिशति ददाति / धनिभिः आढ्यैः अनिशम् सततं दीयमानः क्रियमाणः अर्थिनां याचकानां (कृते) कल्पवृक्षः सङ्कल्पितफलप्रददेवतरुरूपः त्यागः दानम् एकम् अद्वितीयम् सकलं सम्पूर्णम् अबलाऽऽमण्डनं अबलानां दुर्गतानां जनानां आमण्डनं समन्तात् परिपोषकम् द्राक् झटिति सूते सम्पादयति /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy