________________ 61 शीलदूतम् (स्थुलभद्र चरित्रम्) अथ कर्तव्यं निरूपयन्ती प्रकृतपुरीवर्णनादिकं समापयति - तिष्ठन्नस्यां पुरि विजय नाथ ! सौख्यं भज त्वं, कुर्वन् धर्मं भवति सफलं येन जन्मद्वयं ते / हित्वा चापं युवतिषु चिरं यत्र कामोऽपि तस्थौ, तस्यारम्भश्चतुरवनितालोचनैरेव सिद्धः / / 81 / / व्याख्या - हे नाथ ! स्वामिन् ! अस्यां पूर्ववर्णितरूपायां पाटलिपुत्रनाम्नि पुरि नगर्याम् तिष्ठन् स्थितिं कुर्वन्, धर्मम् सुकृतम् कुर्वन् आचरन् विजयजं लौकिक बाह्यशत्रुपराजयोद्भूतम् रागद्वेषाद्यभ्यन्तरशत्रुपराजयोद्भूतं च सौख्यम् ऐहिकं स्रक्चन्दनवनिताद्युपभोगं पारलौकिकं स्वर्गोपभोगं च भज प्राप्नुहि, येन प्राप्तेन ते तव जन्मद्वयं ऐहिकं जन्म, अग्रिमं च जन्म सफलं सार्थकं भवति / यत्र पाटलिपुत्रे चापं धनुः हित्वा परित्यज्य कामः मदनः अपि किन्तु युवतिषु तरुणीषु तस्थौ आश्रितः (यतः) तस्य कामस्य आरम्भ कामिजनवशीकरणोद्योगः चतुरवनितालोचनैः चतुराणां कामकलानिपुणानां वनितानां कामिनीनां लोचनैः नेत्रैः एव सिद्धः सम्पन्नः / अथ श्रीस्थूलभद्रः प्रत्युत्तरयति - निर्यद्वाष्पं वच इति चिरं प्रोच्य तस्यां स्थितायां, सोऽवोचत् तामभजममलं तन्व्यहं जैनधर्मम् / स्वर्गोऽप्यस्माद् मम स मतश्चिन्तितं यत्र दते, हस्तप्राप्यस्तबक न मितो बालमन्दारवृक्षः / / 82 / /