________________ शीलदूतम् (स्थुलभद्र चरित्रम्) युद्धे किं न स्मरसि घनवद् वैरिणां ते पिता य द्वारापातै स्त्वमिव कमलान्यभ्यवर्षद् मुखानि ? / / 52 / / व्याख्या: - ततः तस्माद् हेतोः कातराहं कातरेषु भीरुषु अर्हति औचित्यं भजते इति तादृशम् औदासीन्यम् उदासीनो मध्यस्थः तस्य भावः औदासीन्यम्, उपेक्षां साम्प्रतम् अस्मिन् समये परिहर परित्यज्य, वैरिवारं वैरिणां शत्रूणां वारं समूहं (सङ्घाते प्रकरौधवारनिकर व्यूहाः० अभि० 6-47) विजित्य अभिभूय तं पूर्वोक्तं निजपतिं स्वस्वामिनं नन्दं निश्चिन्तम् शत्रुसमुद्भूत चिन्तारहितं कुरु विधेहि / त्वं भवान् किं न स्मरसि कुतो न चेतयसे यत् ते तव पिता जनकः युद्धे संग्रामे कमलानि पद्मानि इव यथा वैरिणां शत्रूणां मुखानि आननानि धारापातैः खड्गादिधारा प्रहारैः घनवत् मेघवत् अभ्यवर्षत् असिञ्चत् / तपोलभ्यानि सुकृतानि गार्हरर्थेऽपि सुभलानि बन्धुपालन यशश्च तत्राधिकमित्याह - सीदन्तं किं सदयहृदयोपेक्षसे बन्धुवर्ग, वाञ्छन् शुद्धिं त्वमिह विविधैर्दुस्तपै स्तै स्तपोभिः ? / दत्तैः पात्रे सततममले गेहिधर्म स्ववित्तैरन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः / / 53 / / व्याख्या - हे सदयहृदय ! दयया परदुःखापहरणेच्छया सहितं सदयम् तादृशं हृदयम् अन्तःकरणं यस्य तदामन्त्रणम्, विविधै, बहुप्रकारैः दुस्तपै दुःखेन तप्तुं योग्यैः तपोभिः मनोवाक् कायसंयमैः सिद्धिम् अणिमाद्यैश्वर्यप्राप्तिम् वाञ्छन् कामयमानः त्वम् स्थूलभद्रः इह लोके सीदन्तं त्वद् वियोगेन त्वत् प्रदत्तसंरक्षणालाभेन वा कष्टमनुभवन्तम् बन्धुवर्गम् बान्धवसमूहम् किम