SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 41 . शीलदूतम् (स्थुलभद्र चरित्रम्) चितम् अभ्रलग्नम् मेघपर्यन्तोन्नतम् तम् उक्त रूपम् प्राकारम् प्राचीरं पश्य अवलोकय; नीलवेषायुतम् नीलया वेषया पण्यवीथ्या युतं सहितं यं प्राकारं दिविषदः दिवि स्वर्गे सीदन्ति निवसन्तीति ते देवाः दिवि आकाशे (स्थिताः सन्तः), स्थूलमध्येन्द्रनीलम् स्थूलः मध्यस्थितः इन्द्रनीलः तन्नामको नीलवर्णो मणिः यस्य तादृशम् भुवः पृथिव्याः एकम् मुक्तागुणम् मौक्तिकनिर्मितां मालाम् इव यथा श्राक् झटिति वीक्षन्ते अवलोकयन्ति / सम्प्रति तव तपो योग्याऽवस्था नेत्याह - कामो वामं रचयतितरां यौवने नाथ ! चित्तं, योगाभ्यासोद्यतमतिभृतां योगिनामप्यवश्यम् / अङ्गीकुर्या वयसि चरमे धर्मभेदानतः स्वं, पात्री कुर्वन् दशपुरवधूनेत्रकौतूहलानाम् / / 51 / / .. व्याख्या - . . हे नाथ ! स्वामिन् ! कामः कन्दर्पः योगाभ्यासोद्यतमतिभृतां योगाभ्यासाय समाधिसेवनाय उद्यतां तत्परां मतिं बिभ्रति इति योगाभ्यासोद्यतमतिभृतः तादृशानाम् योगिनाम् चित्तवृत्तिनिरोधकृताम् अपि चित्तम् अन्तःकरणम् यौवने तारुण्ये वामं योगाभ्यासप्रतिकूलं रचयतितराम् अत्यन्तं विदधाति, अतः अस्मात् कारणात् चरमे चतुर्थे वयसि वृद्धावस्थायाम् स्वम् आत्मानम् दशपुर-वधूनेत्रकौतूहलानाम् दशानां बह्वीनां पुरवधूनाम् पौरवनितानां नेत्राणां कौतूहलानाम् कौतुकानां पात्रीकुर्वन् विषयतां प्रापयन्, अन्यत्र दशपुरवधूनां जनपदविशेषवासिवनितानाम् इति व्याख्या धर्मभेदान् सुकृतविशेषान् अङ्गीकुर्याः आचरेः / / पुनर्मन्त्रित्वस्वीकारायैव प्ररोचयति - औदासीन्यं परिहर ततः साम्प्रतं कातराहे, निश्चिन्तं तं कुरु निजपति वैरिवारं विजित्य / ...
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy