________________ शीलंदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - सः पूर्वोक्तः स्थूलभद्रः तन्नाम्नः सुप्रसिद्धः श्रीस्थूलभद्रो मुनिप्रवरः समयजलधेः आचारसमुद्रस्य पारम् पर्यन्तं यात्वा प्राप्य, आचारान् सम्यक् परिसमाप्येति यावत् सूरीशत्वं आचार्यपदवीं भेजे प्राप्तवान्, कामम् अत्यन्तं जनमनः लोकचेतांसि रञ्जयामास प्रीणयामास | सापि कोशापि इद्धान् समृद्धान् इष्टान् पूर्वमभिमतान् भोगान् स्रक्चन्दनोत्तमशयनाशनादिकोपयोगान् हित्वा परित्यज्य स्वं निजं चित्तं हृदयं तत्त्वामृततरसैः तत्त्वस्य धार्मिकतत्त्वज्ञानरहस्यस्य अमृततरैः अमृतादप्यधिकै रसैः आस्वादानुभवैः अविरतसुखम् अविच्छिन्नमानन्दं शश्वत् सर्वदा भोजयामास अनुभावयां चकार || . . अथ श्रीस्थूलभद्रमुनिप्रवरकृतं धर्मप्रचारमाह - कुर्वनुर्वीवलयमखिलं जैनधर्माऽनुरक्तं, ' * व्यक्तं चित्रं विदधदतुलं शीलशक्त्या त्रिलोक्याम् / भूमीपीठे स्मरहठहरो दीर्घकालं विहारं, चक्रे वक्रेतरमतिरसौ स्थूलभद्रो मुनीन्द्रः / / 126 / / व्याख्या - वक्रेतरमतिः वक्रात् कुटिलात् इतरा भिन्ना-सरला मतिः बुद्धि यस्य सः, स्मरहठहरः स्मरस्य कामस्य हठं दुराग्रहं हरति नाशयतीति सः, असौ पूर्वोक्त चरितः स्थूलभद्रः तन्नामा मुनीन्द्रः मुनिषु इन्द्रः मुनीन्द्रः साधुश्रेष्ठः अखिलम् सम्पूर्णम् उर्वीवलम् भूमण्डलम् जैनधर्मानुरक्तम् आर्हतधर्मानुरागि कुवन विदधत्, शीलशक्त्या ब्रह्मचर्यप्रभावेण त्रिलोक्याम् त्रयाणां लोकानां समाहारः त्रिलोकी तस्याम्, अतुलम् अनुपमम् चित्रम् अद्भुतम् व्यक्तं प्रकटं यथा स्यात् तथा विदधत् कुर्वन् भूमीपीठे पृथ्वीतले दीर्घकालं बहुसमयं यावत् विहारं भ्रमणं चक्रे कृतवान् / /