________________ _ 32 शीलदूतम् (स्थुलभद्र चरित्रम्) धर्मस्वेदं हरति कुरुते या रतिं श्राग् नराणां, तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः / / 37 / / व्याख्या - हे सुभग ! सुरूप ! सौभाग्यशालिन्, सगरतनयाऽऽनीतवाहां सगरचक्रवर्तिन स्तनयैः पुत्रैः आनीतः हिमालयात् सागरं प्रति नीतः वाहः वहनं वाहः, प्रवाहः यस्याः ताम्, आलोलकल्लोलमालाम् आ समन्तात् लोला चञ्चला कल्लोलानां तरङ्गाणां माला पङ्क्तिः यस्याःताम्, वहन्तोम् प्रसरन्तीम् एतां प्रत्यक्षदृश्यमानां गङ्गाम् भागीरथीं मगय अवलोकय / या गङ्गा तोयक्रीडानिरतयुवतिस्नानतिक्तैः तोयक्रीडायां जलविहारे निरतानां लग्नानां युवतीनां तरुणीनां स्नानेन अवगाहनेन तिक्तैः सुरभितैः मरुद्भिः वायुभिः नराणाम् मनुष्याणाम् धर्मस्वेद ऊष्मजातजलं हरति अपनयति, श्राक् झटिति रतिम् स्त्रीपुंसयोरनुरागं च कुरुते जनयति / कटुतिक्तकषायास्तु सौरभेऽपि प्रकीर्तिताः' इति हलायुधकाशानुसारमिह तिक्तशब्दः सुरभितार्थतया व्याख्यातः / स्नात्यनेनेति स्नानमिति करणेऽनेत स्नानपदं स्नानीय चन्दनादिचूर्णपरमपि 'स्नानीयेऽभिषवे स्नानम्' इति यादवकोशात् / तथा च स्त्रीणां स्नानीयद्रव्येण तत्रत्य वातस्य सौरभयुक्तत्वं युक्तमेव / पुनरप्यत्रवासाय प्रेरयति - . वासं कुर्वन्नवनिविदिते नित्यरङ्गेऽत्र द्रङ्गे, गाङ्गनीरैरनिशममृतस्वादमावेत्स्यसि त्वम् / गङ्गाघोषैः श्रुतिसुखकरैरन्वहं चाब्दजानामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् / / 38 / / / व्याख्या - अवनिविदिते पृथिव्यां ख्याते नित्यरङ्गे नित्यं प्रतिदिनम् रङ्गः