SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 81 __ शीलदूतम् (स्थुलभद्र चरित्रम्) ते तव सादृश्यं साम्यं न अस्ति न विद्यते / / अथात्मनः शीलसम्पत्तिमथ च स्त्रीसंपृक्तवस्तुनामपिवर्जनीयतामाह तुल्यं स्त्रैणं तृणमपि च मे शुद्धशीलप्रभावात्, प्रागासीना भवति भवती येषु येष्वासनेषु / नेहे ब्रह्मव्रतकृतरतिस्तन्वि ! तत्राऽऽसितुं तत् / पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति / / 112 / / व्याख्या - शुद्धशीलप्रभावात् शुद्धस्य निर्मलस्य शीलस्य ब्रह्मचर्यस्य प्रभावात् सामार्थ्यात् मे मम कृते स्त्रैणम् स्त्रीणां समूहः, तृणम् अपि घासाद्यपि च तुल्यम् समानोपयोगम्, न क्वचिदपि अनयो र्मूल्ये उपयोगे वा मे मनसि तारतम्यमस्ति / तत् तस्मात् भवती कोशा प्राक् इतः पूर्वम् येषु आसनेषु आस्तरेषु आसीना उपविष्टा भवति उपविशतीति यावत्, हे तन्वि ! कृशे? ब्रह्मव्रतकृतरतिः ब्रह्मार्थ विशुद्धज्ञानार्थं यत् व्रतं स्त्रीसम्पर्कपरिवर्जनादिकं तत्र कृता रतिः अनुरागों येन तथाभूतोऽहं, 'पूर्वम् इतः पूर्वकाले एभिः आसनैः तव भवत्या अङ्गं शरीरं स्पृष्टं संपृक्तं भवेत् स्यात् किल निश्चयेन' इति हेतोः तत्र आसनेषु तेषु आसितुम् न ईहे नेच्छामि / / अथैवं प्रत्याख्याय तद्गेह एवाखण्डचारित्रश्चातुर्मासीमतिवाह्याह चातुर्मास्यं समजनि शुभे ! पूर्णमेतत्सुखेन, त्वद्गेहे मे समभवदहो ! शीलहानिर्न काचित् / यायां पादानथ निजगुरोर्वन्दितुं कर्मनाशे, क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः / / 113 / / व्याख्या - हे शुभे ! कल्याणशीले त्वद्गेहे त्वदीयेऽस्मिन् गृहे मे मम एतत्
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy