SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ज्ञात्वाऽपीत्थं प्रिय ! परिहरन नो न किं लज्जसे सा ?, त्वामुत्कण्ठातरलितपदं मन्मुखेनेदमाह / / 110 / / व्याख्या - हे सुभग ! 'त्वं भवान् नः अस्माकं त्राता रक्षकः, (त्वं नः) शरणम् आश्रयः, (नः) जीवितव्यम् जीवनोद्देश्यम् त्वम् भवान् एव केवलः, त्वं नः अस्माकं प्राणाः प्राणवायुभूतः, त्वं नः हृदयम् अन्तःकरणम् असि भवसि त्वं नः पतिः स्वामी असिः, त्वं नः गतिः परायणम् असि, हे प्रियतम ! प्रियेषु अतिशयित ? इत्थं पूर्वरूपेण ज्ञात्वा अवगत्य अपि नः अस्मान् परिहरन् परित्यजन् किं कुतः न लज्जसे न त्रपसे' सा कोशा इदं पूर्वोक्तम् त्वाम् श्रीस्थूलभद्रम् मन्मुखेन मद्वदनद्वारा उत्कण्ठातरलितपदम् उत्कण्ठया औत्सुक्ये. न तरलितानि चञ्चलानि पदानि यस्मिन् तद्यथा स्यात् तथा आह कथयति अथाऽसौ स्थूलभद्रः स्वयमेव कोशां जैनधर्मे प्रेरयति .. श्रुत्वा साधुस्तदुदितमथोवाच कोशां च भूयो, धर्मं श्रीमज्जिननिगदितं चेद् भजेथास्त्वमार्ये ! / चातुर्येणाऽखिलयुवतिषु मातले तद्विशाले, हन्तैकस्थं क्वचिदपि न ते सुभ्र ! सादृश्यमिति / / 111 / / व्याख्या - स पूर्वोक्तः साधुः मुनिः श्रीस्थूलभद्रः तदुदितम् तस्याः सख्याः कोशायाश्च उदितम् कथनं श्रुत्वा निशम्य अथ अनन्तरम् भूयः पुनरपि उवाच जगाद हे आर्ये ! श्रेष्ठे त्वं भवती चेत् यदि श्रीमज्जिननिगदितं श्रीमता जिनेन सर्वज्ञेन निगदितं प्रतिपादितं धर्मं सुकृतं भजेथाः सेवेथाः, तत् तर्हि हेसुभ्र! शोभनभृकुटिसहिते विंशाले विस्तृते क्ष्मातले पृथिव्याम् सकलयुवतिषु सर्वत्र तरुणीवृन्दे क्वचिदपि कुत्रापि एकस्थं एकस्मिञ्जने स्थितं चातुर्येण पाटवेन
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy