________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 10 आसीत्, सा स्वप्रियम् स्वस्नेहास्पदम् श्रीस्थूलभद्रम् अनुयान्ती पश्चाद् गन्तुं प्रयस्यन्ती अम्बया मात्रा विविधवचनैः बहुविधदोषदर्शनवेश्याजननीतिविरोधप्रदर्शनादिपरै वचोभिः संनिषिद्धा निवारिता एवं वक्ष्यमाणप्रकारेण दध्यौ अनुशुशोच-प्राणनाथे ? प्रियतमे ! प्रोषिते प्रवासं गते सति इह संसारे स्वगृहे स्वीये आगारे का नारी तिष्ठेत् स्थितिं विदध्यात्, यः अन्यः मदतिरिक्तः अपि जनः लोकः अहम् इव मत् सदृशः पराधीनवृत्तिः परस्य मात्रादे गुरुजनस्य अधीना आयत्ता वृत्तिः आचारः यस्य तादृशः नस्यात् न भवेत् / स्वतन्त्रस्तु नैवं कुर्यादिति भावः / / सम्प्रति पुनरागच्छन्तं श्रीस्थूलभद्रमुनिवरं विलोक्य तद् व्यवहारमाहप्राप्तं द्वारि प्रियतममथो वीक्ष्य सोचे प्रमोदादेवोत्तुङ्ग भज निजगृहस्यैनमग्रयं गवाक्षम् / स्निग्धच्छायं घनमिव जनानन्दनं यत्र संस्थं, सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः / / 9 / / .. व्याख्या - अथो बहुकालप्रवासानन्तरं द्वारि गृहांग्रप्रदेशे प्राप्तं समागतं प्रियतमं अतिशयप्रियं (श्री स्थूलभद्र) वीक्ष्य विशेषेणावलोक्य प्रमोदात् हर्षात् सा कोशाभिधा वेश्या ऊचे वक्ष्यमाण प्रकारेणावदत् - हे देव ! अनेकविधक्रीडाकारिन् ? निजगृहस्य स्वावासभूतस्यास्य मम प्रासादस्य उत्तुङ्गं उच्चैरुन्नतं अग्र्यं अग्रतः स्थितं एनम् अङ्गुल्या निर्देश्यमानं गवाक्षम् वातायनस्थानं चित्रशालाख्यं भज निर्विशः यत्र गवाक्षे संस्थं सम्यक् वर्तमानं (स्थितं) स्निग्धच्छायं स्निह्यते स्म इति स्निग्धा स्पृहणीया छाया कान्तिः यस्य तादृशं जनानन्दनं जनान् सर्वलोकान् आनन्दयति सुखयतीति तं, नयनसुभगं नयनयोः नेत्रयोः कृते सुभगं प्रियम् भवन्तं त्वां घनमिव