SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 53 . शीलदूतम् (स्थुलभद्र चरित्रम्) अत्रत्यानां वधूनां विशेषमाह - अर्हद्भक्तिर्वसति हृदये तारहारेण साकं, मूर्तो कान्तिः स्फुरति च सदा शीलधर्मेण सार्द्धम् / चित्ते सातं घनसमयजं विद्यते साम्प्रतं सत्, सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् / / 69 / / व्याख्या यत्र पाटलिपुत्रे वधूनाम्, स्त्रीणां (स्त्री नारी वनिता वधूः [अभिधान० 3, 167] हृदये अन्तः करणे हृदयप्रदेशोपरि च तारहारेण तारेण उज्ज्वलेन हारेण मौक्तिकमालया साकं सह अर्हद्भक्तिः अर्हतां जिनानां भक्तिः श्रद्धा वसति स्थितिं करोति, (वधूनां) मूर्ती स्वरूपे शीलधर्मेण शीलरूपेण धर्मेण सार्द्ध सह कान्तिः शोभा सदा सर्वदा स्फुरति प्रतिभासते, (वधूनां) चित्ते मनसि साम्प्रतं सद्यः त्वदुपगमजं भवत्सम्पर्कसम्भूतं सत् सुन्दरं सातं सुखं विद्यते (वधूनां) सीमन्ते केशपाशे च घनसमयजं वर्षाकालोत्पन्नं नीपं कदम्बकुसुमं विद्यते / / पुनरपि पुरीमेव विशिनष्टि - गङ्गागौरा: सितकरहयाकारचौरास्तुरङ्गाः, ... शृङ्गोत्तुङ्गा ललितगतयो दानवन्तो गजेन्द्राः / 'लीलावत्योऽखिलयुवतयो यत्र वीरावतंसाः, . प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः / / 70 / / व्याख्या - यत्र पाटलिपुत्रे गङ्गागौराः गङ्गावत् गङ्गाजलप्रवाहवत् गौराः श्वेतवर्णाः तुरङ्गा सितकरहयाकारचौराः सितकरस्य श्वेतकिरणस्य सूर्यस्य हयानाम् अश्वानामाकरं स्वरूपं चोरयन्ति लुम्पन्ति इति तादृशाः (सन्ति)
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy