Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 136
________________ विभाग-१, बृहद्वृत्तिः १०९ तथा यद्भवहेतुरेव संसारकारणमेव भविनां देहिनां जिनमन्दिरे जलक्रीडादि ॥ एतद्धि मदनोद्दीपनत्वात् क्रीडामात्रत्वेनातात्त्विकत्वाच्च संसारवर्धनमेव परमतेदपि लिङ्गिनो धर्मछाना स्वावलोकनकुतूहलेन कारयन्ति ॥ यदाह ॥ श्रृंङ्गैः प्रसूनसमये जलकेलिलीला ॥ मान्दोलनं भगवदोकसि देवतानाम् ॥ धर्मछलालगुडरासमनल्पहासम् ॥ निर्मापयन्त्यहह संसृतिहेतुमज्ञाः ॥ तथा यत् शास्त्रबाधाकरं सिद्धान्तविरोधाधायकमौद्देशिकभोजनादि ॥यथाच्चौद्देशिकादीनां शास्त्रबाधितत्वं तथा प्रागेवोपपादितम्॥अथवा आषाढचतुर्मासकात्पञ्चाशत्तमदिन प्रतिपादितस्य पर्युषणापर्वणः श्रावणाद्याधिक्यवतिवर्षेऽशीति तमेऽह्नि विधानम् ॥ यदुक्तम् ॥ वृद्वौ लोकदिशा नभस्यनभसोः सत्यां श्रुतोक्तदिनम् ॥ पञ्चाशं परिहत्य ही शुचिभवात्पश्चाच्चतुर्मासकात् ॥ तत्राशीतितमे कथं विदधते मूढा महं वार्षिकम् ॥ कुग्राहाद्विगणय्य जैनवचसो बाधां मुनिव्यंसकाः ॥ ननु ब्रुवन्तु ते स्वमतिकल्पितं मार्ग तथापि वितथादिस्वभावत्वात्तं न कोपि ग्रहिष्यति तथा चोक्तोप्यनुक्तकल्पो लोकोपादानाभावेन प्रसराभावादित्यत आह॥मूढा अज्ञानिनः तत्र धर्मव्याजेन लिङ्गिप्ररूपितं मतम् अर्हन्मतभ्रान्त्या जैनमार्गोऽयमिति मिथ्याज्ञानेन लान्ति उपाददते ॥अयमर्थः॥ यथोभयगतचाकचिक्यादिसदृशधर्मोपलम्भात् परस्परव्यावर्त्तक देशजात्यादिभेदधर्मानुपलम्भाच्च . अरजतेऽपि शुक्तिकायां रजतमेतदिति धिया भ्रान्ताः प्रवर्त्तन्ते ॥ तथेहापिसन्मार्गासन्मार्गगतजिनदेवताभ्युपगमबाह्यावेषादिसमानधर्माऽवगमादन्योन्यव्यवच्छेदकविध्यविधिप्रवृत्त्यादिविशेषधर्मानवगमाच्च वितथत्वादिना वस्तुतोऽनर्हन्मतेपि प्रकृतमार्गेऽर्हन्मतमेतदितिबुद्ध्या मूढाः प्रवर्त्तन्त इति ॥ न केवलमेतत्कुमार्गं वदन्ति ॥ मूढास्तु तं गृह्णन्त्यपीति च शब्दार्थः ॥ हो इति विषादे ॥ ... दुरन्तदशमाश्चर्यस्य दुःखावसानान्त्याश्चर्यस्य विस्फूर्जितं विजृम्भितमेतदिति ॥ कथमन्यथा कुपथस्याप्येतस्य बहुमुग्धजनोपादेयता स्यादतः कष्टमेतद्यदद्याप्ययं कुमार्गोऽस्खलितप्रसरोऽनुवर्तत इति वृत्तार्थः ॥२८॥ साम्प्रतं मुग्धजनान् प्रति स्वमतं मोक्षपथतयादिशतःसत्पथगामिनश्च धार्मिकान् स्ववचनानुरोधित्वेनाज्ञतया अवजानानस्य कस्यचिद्यथाछन्दाचार्यग्रामण्योऽप्रस्तुतप्रशंसया स्वरूपमाह ॥ ॥ मूलकाव्यम् ॥. कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुराध्वानं किलोत्कन्धरः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262