Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 214
________________ विभाग-४, लघुवृत्तिः १८७ राशिग्रहसखं यद्दशमाश्चर्यम्-असंयतपूजालक्षणम् । अत्र च सख्यं भस्मराशिदशमाश्चर्ययोलौकिकसखयोरिव द्वयोरपि साहचर्येण दुष्का[ ऐकका ]र्यकारित्वं यथाछन्दप्राबल्यकारित्वेन मिथ्यात्वपोषस्तस्य साम्राज्यमिव, साम्राज्यं यथा राज्ञः कस्यचित् सकलमण्डलाधिपत्यं[ रिपुवि ]जयपुरस्सरमाज्ञैश्वर्यं साम्राज्यमुच्यते, एवमिहापि सुविहित जनतिरस्कारेण सकललोकस्यासंयतजनवशवर्तित्वं दशमाश्चर्यस्य साम्राज्यं, तेन 'पुष्यद्' एधमानं-वर्द्धमानं 'मिथ्यात्वं' अतत्त्वे तत्त्वप्रतिपत्तिरूपं, तदेव 'ध्वान्तं' अन्धकारं, सम्यग्ज्ञानावलोकननिरासक्षमत्वात्, तेन 'रुद्धे' व्याप्ते जैनेन्द्रमार्गे । अथ क्व सति जैनेन्द्रमार्गे । मिथ्यात्व[ध्वान्त ]रुद्धत्वाद्विरलतां प्राप्ते ? इत्याह-इह किलेत्यादि, इह-जगति, किलशब्दार्थस्त्वने वक्ष्यते, प्राणिवर्गे-मानवसमुदाये सति । किंरूपे ? लोकोक्त्या कलिकालो जिनोक्त्या दुःषमाकालस्तेन, कलिकाल एव-दुःषमाकाल एव निखिलानाचारगरलनिलयत्वाद् व्यालःसर्पस्तस्य 'वक्त्रान्तरालं' वदनमध्यं, तत्र स्थितिम् अवस्थानं 'जुषते' सेवते यः तस्मिन् । अत एव तत्त्वेषु भगवत्प्रणीतेषु जीवाजीवादिषु 'प्रीतिः' एतान्येव वास्तवानि तत्त्वानि, न तु कुतीर्थिकप्रणीतानि, [इति चेतसः प्रमोदः । तथा 'नीते' या॑यस्य-सदाचारस्य ‘प्रचारः' प्रवृत्तिः । ततश्च गतौयथाक्रमं कुदर्शनाभ्यासदुर्विदग्धत्वेन प्रमादाक्रान्तत्वेन च नष्टौ [तत्त्व ]प्रीतिनीति-प्रचारौ यस्य स तथा, तस्मिन् । तथा, 'प्रसरत्' तथाविधगुरुसम्प्रदायाभावात्-प्रादुर्भवद् 'अनवबोधः' सम्यक्सिद्धान्तार्थापरिज्ञानं, तेन परिस्फुरन्तः कापथानाम् 'ओघाः 'समूहास्तैः 'स्थगितः' तिरस्कृतः सुगतेरपवर्गलक्षणायाः 'सर्गो' निष्पत्तिर्यस्य स तथा, तस्मिन् । 'सम्प्रति' इदानीं । किलेति सम्भावने, सम्भाव्यते एतत् यत्कलिकालानुभावात् सम्प्रत्येवंविधे प्राणिवर्ग इति वृत्तद्वयार्थः ॥३-४॥ _ इदानीं योग्यश्रोतुरग्रे साधुवेषकल्पिते पथि दशभिद्वारैः तत्प्ररूपितं धर्म कथयन् तस्य च कर्मनिर्मूलनक्षमत्वमसम्भावयन् इदमाह. यत्रौद्देशिकभोजनं जिनगृहे वासो वसत्यक्षमा ॥५॥ __व्याख्या-अत्र पथि अयं धर्म:-चेत्कर्महरो भवेत् तदा मेरुरब्धौ तरेदिति सम्बन्धः । 'अत्र' अस्मिन् प्रत्यक्षोपलभ्यमाने 'पथि' मार्गे-लिङ्गिकल्पिते मते धर्म औद्देशिकभोजनादिः, अयं 'चेत्' यदि 'कर्महरो' ज्ञानावरणीयादिध्वंसदक्षो 'भवेत्' स्यात् तदानीं मेरुर्लक्षयोजनमान:पर्वतराजः 'अब्धौ' सागरे तरेत् । अयं च 'निदर्शनालङ्कारः-ततश्चायमर्थः-समुद्रे पाषाणखण्डस्य तरणमसम्भवि किं पुनर्मेरोः' ? ततो यथा मेरोः समुद्रतरणमघटमानम् एवमस्य धर्मस्य कर्महरत्वमिति । 'यत्र' यस्मिन्पथि, किं ? यतीनामौद्देशिकभोजनादिर्धर्म इष्यत इति सर्वत्र क्रियाऽध्याहारः । तथा 'उद्देशेन' विकल्पेनयतीन्मनसि कृत्वा निवृत्तं-निष्पादितम् औद्देशिकं । क्रीतादिकत्वाद्-इकण् । तच्च तद्भोजनं चाशनादि । यद्यपि सिद्धान्ते Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262