________________
विभाग-४, लघुवृत्तिः
१८७ राशिग्रहसखं यद्दशमाश्चर्यम्-असंयतपूजालक्षणम् । अत्र च सख्यं भस्मराशिदशमाश्चर्ययोलौकिकसखयोरिव द्वयोरपि साहचर्येण दुष्का[ ऐकका ]र्यकारित्वं यथाछन्दप्राबल्यकारित्वेन मिथ्यात्वपोषस्तस्य साम्राज्यमिव, साम्राज्यं यथा राज्ञः कस्यचित् सकलमण्डलाधिपत्यं[ रिपुवि ]जयपुरस्सरमाज्ञैश्वर्यं साम्राज्यमुच्यते, एवमिहापि सुविहित जनतिरस्कारेण सकललोकस्यासंयतजनवशवर्तित्वं दशमाश्चर्यस्य साम्राज्यं, तेन 'पुष्यद्' एधमानं-वर्द्धमानं 'मिथ्यात्वं' अतत्त्वे तत्त्वप्रतिपत्तिरूपं, तदेव 'ध्वान्तं' अन्धकारं, सम्यग्ज्ञानावलोकननिरासक्षमत्वात्, तेन 'रुद्धे' व्याप्ते जैनेन्द्रमार्गे । अथ क्व सति जैनेन्द्रमार्गे । मिथ्यात्व[ध्वान्त ]रुद्धत्वाद्विरलतां प्राप्ते ? इत्याह-इह किलेत्यादि, इह-जगति, किलशब्दार्थस्त्वने वक्ष्यते, प्राणिवर्गे-मानवसमुदाये सति । किंरूपे ? लोकोक्त्या कलिकालो जिनोक्त्या दुःषमाकालस्तेन, कलिकाल एव-दुःषमाकाल एव निखिलानाचारगरलनिलयत्वाद् व्यालःसर्पस्तस्य 'वक्त्रान्तरालं' वदनमध्यं, तत्र स्थितिम् अवस्थानं 'जुषते' सेवते यः तस्मिन् । अत एव तत्त्वेषु भगवत्प्रणीतेषु जीवाजीवादिषु 'प्रीतिः' एतान्येव वास्तवानि तत्त्वानि, न तु कुतीर्थिकप्रणीतानि, [इति चेतसः प्रमोदः । तथा 'नीते' या॑यस्य-सदाचारस्य ‘प्रचारः' प्रवृत्तिः । ततश्च गतौयथाक्रमं कुदर्शनाभ्यासदुर्विदग्धत्वेन प्रमादाक्रान्तत्वेन च नष्टौ [तत्त्व ]प्रीतिनीति-प्रचारौ यस्य स तथा, तस्मिन् । तथा, 'प्रसरत्' तथाविधगुरुसम्प्रदायाभावात्-प्रादुर्भवद् 'अनवबोधः' सम्यक्सिद्धान्तार्थापरिज्ञानं, तेन परिस्फुरन्तः कापथानाम् 'ओघाः 'समूहास्तैः 'स्थगितः' तिरस्कृतः सुगतेरपवर्गलक्षणायाः 'सर्गो' निष्पत्तिर्यस्य स तथा, तस्मिन् । 'सम्प्रति' इदानीं । किलेति सम्भावने, सम्भाव्यते एतत् यत्कलिकालानुभावात् सम्प्रत्येवंविधे प्राणिवर्ग इति वृत्तद्वयार्थः ॥३-४॥ _ इदानीं योग्यश्रोतुरग्रे साधुवेषकल्पिते पथि दशभिद्वारैः तत्प्ररूपितं धर्म कथयन् तस्य च कर्मनिर्मूलनक्षमत्वमसम्भावयन् इदमाह. यत्रौद्देशिकभोजनं जिनगृहे वासो वसत्यक्षमा ॥५॥ __व्याख्या-अत्र पथि अयं धर्म:-चेत्कर्महरो भवेत् तदा मेरुरब्धौ तरेदिति सम्बन्धः । 'अत्र' अस्मिन् प्रत्यक्षोपलभ्यमाने 'पथि' मार्गे-लिङ्गिकल्पिते मते धर्म औद्देशिकभोजनादिः, अयं 'चेत्' यदि 'कर्महरो' ज्ञानावरणीयादिध्वंसदक्षो 'भवेत्' स्यात् तदानीं मेरुर्लक्षयोजनमान:पर्वतराजः 'अब्धौ' सागरे तरेत् । अयं च 'निदर्शनालङ्कारः-ततश्चायमर्थः-समुद्रे पाषाणखण्डस्य तरणमसम्भवि किं पुनर्मेरोः' ? ततो यथा मेरोः समुद्रतरणमघटमानम् एवमस्य धर्मस्य कर्महरत्वमिति । 'यत्र' यस्मिन्पथि, किं ? यतीनामौद्देशिकभोजनादिर्धर्म इष्यत इति सर्वत्र क्रियाऽध्याहारः । तथा 'उद्देशेन' विकल्पेनयतीन्मनसि कृत्वा निवृत्तं-निष्पादितम् औद्देशिकं । क्रीतादिकत्वाद्-इकण् । तच्च तद्भोजनं चाशनादि । यद्यपि सिद्धान्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org