________________
१८८
श्री सङ्घपट्टकः औद्देशिकशब्द उद्गमदोषद्वितीयभेदार्थः श्रूयते, तथापीह वक्ष्यमाणवृत्तार्थपर्यालोचनेन आधाकर्मणि वर्त्तते, तस्यैवेह केवलयतिनिमित्तविधीयमानत्वेन महादोषतया विवक्षितत्वात्, उद्देशनिवृत्तस्य च सामान्यव्युत्पत्त्यर्थस्योभयत्रापि समानत्वात् । अत्र यतीनामौदेशिकभोजनग्रहणे यथाछन्दा युक्ति दर्शयन्ति-पूर्वं हि बहवोऽत्यन्तं दानश्रद्धालवः श्राद्धा अभूवन्, तेन यतीनां प्रासुकैषणीयेनापि भैक्ष्येण निराबाधं निर्वाहोऽभूत्, इदानीं दुष्षमाकालदोषात् दरिद्रतामल्पतां च गच्छत्सु श्राद्धेषु ऐदंयुगीनमुनीनां तथाविधशक्तिसंहननविकलानां शुद्धेन भक्तादिना संयमनिर्वाहाभावे यदि कश्चिच्छ्रद्धालुस्तीर्थाविच्छेदमिच्छुः श्राद्धः साधुसङ्घ निमित्तकृतभक्तादिनाऽपि धर्माधारं शरीरमवष्टम्भयेत् तदा को दोषः ? आत्मा च यतिना यथा कथञ्चन रक्षणीयः, तस्माद्यतीनामाधाकर्मिकभोजनमदुष्टं, संयमशरीरोपष्टम्भकत्वात्, कल्पग्रहणवच्छुद्धभोजनवद्वा । तथा यतिभिराधाकर्मिकभोजनं विधेयं, श्राद्धश्रद्धावृद्धिहेतुत्वात्, धर्मदेशनवदिति प्रयोगावप्युपपद्यते १ । तथा 'जिनानाम्' अर्हतां गृहं, तत्र 'वासः' सर्वदाऽवस्थानम् । इह केचित्सुखशीलतयोद्यतविहारं कर्तुमशक्नुवन्तो यतीनां चैत्य एवं सदाऽवस्थानं युक्तमिति प्रतिपेदिरे, ते चाहुः-तस्मात् इदानीं जिनगृहवास एव साधूनां सङ्गतः प्रतिभाति, न च तत्राधाकर्मिकादयो दोषाः, तीर्थकरार्थं कृतत्वात् । चैत्यम्-इदानीन्तनमुनीनामुपभोगयोग्यम्, आधार्मिकदोषरहितत्वात्, शुद्धाहारवदित्यादि । तदेवं सूक्ष्मदृष्ट्या विमृशतां विदुषां चित्ते चैत्यवास एवेदानीन्तनमुनिनां सङ्गतिमङ्गति २ । तथा वसत्यक्षमेति, वसतौ परगृहे निवासं प्रति अक्षमा मात्सर्यम्, आधाकर्मस्त्रीसंसक्त्यादिदोषजालरहितजिनगृहवासलाभे आधार्मिकवसतिवासस्य अत्यन्तमनुचितत्वात् । को ह्युन्मत्तः पथ्याशनप्राप्तावपथ्यमश्नीयात्, तस्मात्परगृहवसतिरसमीचिनाऽधुनातनयतीनाम् । यश्चागमे परगृहवासः श्रूयते स तात्कालिकसात्त्विक यत्यपेक्षयेति ३ । तथा 'स्वीकारः' स्वायत्तापादनं, केषु ? इत्याह-'अर्थो' द्रविणं 'गृहस्थः' श्राद्धः 'चैत्यसदनं' जिनगृहं ततोऽर्थश्चेत्यादि द्वन्द्वः, तेषु । तत्र द्रव्यस्वीकारस्यागमे निषिद्धत्वेऽपि साम्प्रतयतीनां तत्स्वीकारो युक्तः, तं विना ग्लानपरचक्रदुर्भिक्षाद्यवस्थायां भैषजपथ्याद्यनुपपत्तेः । प्रायेण गृहमेधिनां कालदोषान्निर्द्धनत्वेन निर्द्धर्मत्वेन च यतिचिन्ताद्यविधानात्, तेनार्थस्वीकारः साम्प्रतिकमुनीनां सङ्गत इवाभातीति ४ । तथा श्रावकस्वीकारोऽपि अद्यतनमुनीनामुत्सर्गापवादपदविदुराणां न नियुक्तिकः । पूर्वं हि कालस्य सौस्थ्यादतिशयवत्पुरुषबाहुल्याज्जैनमतबाह्या अपि जनाः श्वेताम्बरभिक्षुभ्यः सबहुमानं भिक्षादिकं वितेरुः, साम्प्रतं तु जैनमार्गवैमुख्येन तेषां तथाविध श्वेताम्बरदित्साया अभावात्, अतः श्राद्धस्वीकारं विना भिक्षाऽवाप्तेरप्यनुपपत्तेयुक्तः सम्प्रति श्राद्धस्वीकार: ५ ॥ तथा चैत्यस्वीकारोऽपि मुनिनां समीचीनः, सम्प्रति गृहस्थानां चैत्यचिन्तां प्रति निरवधानतया यतिस्वीकारमन्तरेण कालेन तभ्रंशसम्भवात् मार्गलोपप्रसङ्गेन चागमे त्वर्थापत्त्या तत्स्वीकार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org